________________
तृतीयः सर्गः। विभावसू' इति विश्वामरौ । शलभतां पतङ्गत्वम् । 'समौ पतङ्गशलभा' इत्यमरः । भावे तल । लभतां गच्छतु । रूपकालंकारः । द्रुतविलम्बितं वृत्तम् ॥ इति विशकलितार्थामौद्धवीं वाचमेना
मनुगतनयमार्गामर्गलां दुर्नयस्य । जनितमुदमुदस्थादुच्चकैरुच्छ्रितोरःस्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान्सः ॥ ११८ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्यङ्के
मन्त्रवर्णनं नाम द्वितीयः सर्गः ॥२॥ इतीति ॥ हरिरित्थं विशकलितार्थी विवेचितार्थामनुगतनयमार्गी नीतिमार्गानुसारिणी दुर्नयस्य । बलभद्रायुक्तस्येत्यर्थः । अर्गलां निवारयित्रीमिति वैध
hण रूपकालंकारः । तद्विष्कम्भोऽर्गलं न ना' इत्यमरः। अतएव जनितमुदं हरेः कृतानन्दाम् । उच्छ्रित उन्नते उरःस्थले नियतं निषण्णया अविश्रान्तमाश्रितया श्रिया श्रुतां नान्ययेति मन्त्रगुप्तिः । उद्धवस्येमामौद्धवीमेनां पूर्वोक्तां वाचं शुश्रुवान्श्रुतवान् । 'भाषायां सदवसश्रुवः' इति वसुः। उच्चैरेवोच्चकैरुन्नतः सन् । 'अव्ययसर्वनाम्नामकच्याक्टेः' इत्यकच्प्रत्ययः । उदस्थादासनादुत्थितवान् । 'उदोऽनूर्ध्वकर्मणि' इत्यस्य प्रत्युदाहरणमेतत् । रूपकानुप्रासालंकारौ। मालिनी वृत्तम् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध. ___ काव्यव्याख्याने सर्वकषाख्ये द्वितीयः सर्गः ॥२॥
तृतीयः सर्गः। कौबेरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवावतीर्णः । अपेतयुद्धाभिनिवेशसौम्यो हरिहरिप्रस्थमथ प्रतस्थे ॥१॥ कौबेरेति ॥ अथोद्धववाक्य श्रवणानन्तरम् । अपेतो युद्धेऽभिनिवेश आग्रहो यस्य सः। शान्तक्रोध इत्यर्थः । अतएव सौम्यः प्रसन्नः । अतएव कौबेर्या दिशो भागम् । उत्तरायणमित्यर्थः। 'स्त्रियाः पुंवत्-' इत्यादिना पुंवद्भावः । तमपास्य त्यक्त्वाऽगस्त्यस्येममागस्त्यं मार्गमवतीर्णः । दक्षिणायनं गत इत्यर्थः। उष्णांशुरिव स्थितः। अनेन हरेः क्रोधः कार्यवशादाकालमन्तः स्तम्भितो, न वेकान्ततो निवृत्त इति सूचितम् । हरिः कृष्णो हरिप्रस्थमिन्द्रप्रस्थं प्रतस्थे प्रचचाल । 'इन्द्रो दुश्यवनो हरिः' इति हलायुधः । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । 'देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्' इति गन्तव्यस्य कर्मत्वम् । उपमालंकारः । सगेऽस्मिन्निन्द्रोपेन्द्रवज्रामिश्रणादुपजातिवृत्तम् । 'अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इति लक्षणात् ॥ .. १ 'नरकरिपुरुदस्थादु' इति पाठः.