________________
६४
शिशुपालवधे
चारिभिः । पचायच् । एकार्थानि त्वया सहैकप्रयोजनानि राजन्यानां समूहा राजन्यकानि। गोत्रोक्ष-' इत्यादिना वुञ्। अजातशत्रोरिमामाजातशात्रवी पुरीमिन्द्रप्रस्थमुपेयिवांसि प्राप्नुवन्ति। उपेयिवान्-' इत्यादिना कसुप्रत्ययान्तो निपातः।कर्तारः करिष्यन्ते । कृतः कर्मणि लुट् । इन्द्रप्रस्थेऽस्माकं महत्कार्य भविष्यति तदध्वरयात्राव्याजेन संनद्वैरागन्तव्यमिति गूढं संदिश्य तत्र सर्वे मेलयितव्या इत्यर्थः ॥
ननु तत्रावरकर्मणि को युद्धावकाश इत्याशक्य तत्रैव महत्कलहवीजं संपा. दयति
सविशेषं सुते पाण्डोभक्तिं भवति तन्वति ।
वैरायितारस्तरलाः स्वयं मत्सरिणः परे ॥ ११५ ॥ सविशेषमिति ॥ पाण्डोः सुते युधिष्ठिरे भवति पूज्ये त्वयि सविशेषं यथा तथा भक्तिं तन्वति सति तरलाश्चपला मत्सरिणो द्वेषवन्तः परे शत्रवः स्वयमेव वैरायितारो वैरं कर्तारः। 'शब्दवैरकलह-' इत्यादिना क्यङ् । ततः कर्तरि लुट् ॥ किं तेऽपि सर्वे वैरायिष्यन्ते, नेत्याहय इहात्मविदो विपक्षमध्ये
सह संवृद्धियुजोऽपि भूभुजः स्युः। बलिपुष्टकुलादिवान्यपुष्टैः . पृथगसादचिरेण भाविता तैः ॥ ११६ ॥ य इति ॥ ये इह विपक्षमध्ये शत्रुमध्ये सहसंवृद्धियुजोऽपि चैद्येन सहैश्वर्य गता अपि 'सत्सूद्विष-' इत्यादिना क्किए । ये भूभुजो राजान आत्मविदः स्वाभिजनवेदिनः स्युः, यद्वा स्वात्मरूपवेदिनः स्युस्तैर्भूभुग्भिः बलिपुष्टकुलात्काककुलात् । 'काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः' इत्यमरः । अन्यपुष्टैः परभृतैरिवाचिरेण सद्योऽस्माद्विपक्षमध्यात्। 'अन्यारात्-' इत्यत्रान्यशब्दस्यार्थपरत्वात्पृथगादिप्रयोगेऽपि पञ्चमी । पृथग्भाविता पृथग्भविष्यते । भावे लुट् । चिण्वदिटि वृद्धिः । तेष्वपि केचिदस्माभिः संगच्छन्त इत्यर्थः । औपच्छन्दसिकं वृत्तम् ॥ अथ फलितं निगमयन्नाशिषं प्रयुक्ते
सहजचापलदोषसमुद्धतश्चलितदुर्बलपक्षपरिग्रहः ।
तव दुरासदवीर्यविभावसौ शलभतां लभतामसुहृद्गणः ११७ सहजेति ॥ सहजं स्वाभाविकं चापलं दुर्विनीतत्वम्, अनवस्थितत्वं च । 'चपलः पारदे शीघ्र दुर्विनीतेऽनवस्थिते' इति वैजयन्ती। तेनैव दोषेण समुद्धतो दृप्तः पक्षः सहायो गरुच्च । 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिपु' इति वैजयन्ती । चलितोऽस्थिरो दुर्बलपक्षपरिग्रहो यस्य सः असुहृद्गणः शत्रुवर्गस्तव दुरासदवीर्यविभावसौ दुःसहतेजोवद्वौ । 'वीर्य शुक्रे प्रभावे च तेजःसामर्थ्ययोरपि', 'सूर्यवह्नी