________________
शिशुपालवधे
इत्यमरः । सहिष्ये सोढाहे इति यत्त्वया प्रतिश्रुतं प्रतिज्ञातं तत्प्रतीक्ष्यं प्रतिपालनीयम् । अन्यथा महादोषस्मरणादिति भावः ॥ सत्यमस्ति प्रतिश्रुतं, किंत्वस्योन्मत्तत्वादौद्धत्यादपि जिहासितमत आह
तीक्ष्णा नारंतुदा बुद्धिः कर्म शान्तं प्रतापवत् ।
नोपतापि मनः सोष्म वागेका वाग्मिनः सतः॥१०९ ॥ तीक्ष्णेति ॥ सतः सत्पुरुषस्य बुद्धिस्तीक्ष्णा निशिता स्यादिति विद्धीत्यध्याहारः । एवमुत्तरत्रापि । तथाप्यरुस्तुदतीत्यरंतुदा शस्त्रवन्मर्मच्छेदिनी न भवेत् । अहिंसयैव परं पीडयेदि त्यर्थः । कर्म व्यापारः प्रतापवत्तेजस्वि भयदं स्यात्, तथापि शान्तं स्यात् । नतु सिंहादिवद्धिंत्रं भवेदित्यर्थः । मनश्चित्तं सोम अभिमानोष्णं स्यात्तथापि उपतापयतीत्युपतापि । अग्न्यादिवत्परसन्तापि न स्यात् । वाग्मिनो वक्तुर्वागेका एकरूपा स्यात् । वाग्ग्मी सत्यमेव वदेदित्यर्थः । अतः सत्यसन्धस्य प्रतिश्रुतार्थहानिरनहेति भावः। अत्र प्रकृताया वाचोऽप्रकृतानां बुद्धिकर्ममनसां च तुल्यधर्मादौपम्यावगमाद्दीपकालंकारः । 'प्रकृताप्रकृतानां च साम्ये तु तुल्यधर्मतः । औपम्यं गम्यते यत्र दीपकं तन्निगद्यते ॥' इति लक्ष. णात् । बुद्ध्यादीनां शस्त्रादिव्यतिरेको व्यज्यते ॥ अशक्यश्च काले चैद्यवध इत्याह
स्वयंकृतप्रसादस्य तस्थाह्रो भानुमानिव ।
समयावधिमप्राप्य नान्तायालं भवानपि ॥ ११० ॥ स्वयमिति ॥ किंच अह्नो भानुमानिव स्वयं कृतः प्रसादोऽनुग्रहः, प्रकाशश्च यस्य तस्य चैद्यस्यान्ताय समयावधि नियतकालावसानमप्राप्य भवानपि नालं शक्तो न । तथा च वृथापकीर्तिरेव । अन्यन्न किंचित्फलं स्यादिति भावः ॥ तर्हि किमयमुपेक्ष्य एव, नेत्याह
कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम् ।
विदांकुर्वन्तु महतस्तलं विद्विपदम्भसः ॥ १११ ॥ कृत्वेति ॥ किंतु कृत्य विदः कार्यज्ञाः विधिज्ञाश्च प्रणिधीयन्त इति प्रणिधयो गूढचारिणः । 'प्रणिधिगूढपुरुषः' इति हलायुधः। तरन्त्येभिरिति तीर्थानि मन्त्राद्यष्टादश स्थानानि, जलावताराश्च । 'योनौ जलावतारे च मन्त्राद्यष्टादशस्वपि । पुण्यक्षेत्रे तथा पात्रे तीर्थ स्यात्' इति हलायुधः । तेष्वन्तः पदं स्थानं पादप्रक्षेपं च कृत्वा महतो दुरवगाहस्य, पूज्यस्य च विद्विषन् शत्रुरेवाम्भस्तस्य तलं स्वरूपम् । प्रमाणमिति यावत् । 'अधःस्वरूपयोरस्त्री तलम्' इत्यमरः । विदांकुर्वन्तु विदन्तु । 'विद ज्ञाने' लोट् । 'विदांकुर्वन्त्वित्यन्यतरस्याम्' इति विकल्पादाम्प्रत्ययनिपातः। अम्भस इव शत्रोः कृततीर्थस्य सुप्रवेशत्वात्प्रागन्तः प्रविश्य परीक्ष्येत्यर्थः । श्लिष्टपरम्परितरूपकम् ॥ १'तीर्थैरन्तः' इति पाठः.