________________
द्वितीयः सर्गः।
चिरादिति ॥ बलिनः स्वयं बलवतोऽप्यरिषु विषये बलात्कारो दण्डविराचिरकालेनापि । सद्यो मा भूदिति भावः । सिद्धये। वशंवदत्वसिद्धये भवतीति शेषः । अविमनसो विमनसः संपद्यमानाः कृता विमनीकृताः । वैमनस्यं प्रापिता इत्यर्थः । 'अरुमनश्चक्षुश्चेतोरहोरजसा लोपश्च' इति च्चिप्रत्ययलोपौ । 'अस्य च्वौ' इतीकारः । शोभनं हृदयं येषां ते सुहृदो मित्राणि तु । 'सुहृदुहृदौ मिन्त्रामिप्रयोः' इति निपातः । छन्दस्याभिप्रायस्यानुवृत्त्या चित्तानुरोधेनापि दुःसाध्याः। आर्जवयितुमशक्या इत्यर्थः । 'अभिप्रायश्छन्द आशयः' इत्यमरः । शनैः शत्रुर्दण्डेनापि वशो भवति, मित्रं वैमनस्येन सान्नापीति भावः ॥ ननु सुहृत्कार्यात्सुरकार्य बलीय इत्यत्राह
मन्यसे रिवधः श्रेयान्प्रीतये नाकिनामिति ।
पुरोडाशभुजामिष्टमिष्टं कर्तुमलंतराम् ॥ १०६॥ मन्यस इति ॥ नाकिनां देवानां प्रीतयेऽरिवधः श्रेयान्प्रशस्यतरः । 'प्रशस्यस्य श्रः' इति श्रादेशः । इति मन्यसे चेत्तर्हि पुरोडाशभुजां हविर्भोजिनाम् । अतएव नाकिनामिष्टमभीप्सितं कर्तुम् । इषेः कर्मणि क्तः । इष्ट इष्टिः । याग इति यावत् । यजेर्भावे तः। 'वचिस्वपि-' इत्यादिना संप्रसारणम् । अलंतरा। मतिपर्याप्तम् । अव्ययादामुप्रत्ययः । शत्रुवधादतिप्रियकरो याग एव नाकिनां भुक्त्वापि शत्रुवधस्य सुकरत्वादिति भावः ॥ तथाप्यमृताशिनां तेषां देवानां किमेभिः पिष्टभक्षणप्रलोभनैरत आह
अमृतं नाम यत्सन्तो मत्रजिह्वेषु जुह्वति ।
शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥ १०७ ॥ अमृतमिति ॥ अमृतं नाम सन्तो विद्वांसः मन्त्रा एव जिह्वा येषां तेषु मन्त्रजिह्वेष्वग्निषु । 'मत्रजिह्वः सप्तजिह्वः सुजिह्नो हव्यवाहनः' इति वैजयन्ती । यत्पुरोडाशादिकं जुह्वति तदेवेति शेषः। यत्तदोनित्यसंबन्धात् । मन्दर एव क्षुब्धो मन्थनदण्डः । 'क्षुब्धस्वान्त-' इत्यादिनास्मिन्नर्थे निपातनासिद्धम् । तेन क्षुभितस्य मथितस्याम्भोधेवर्णना शोभैवालंकार एव । अब्धिमन्थनेनामृतमुत्पादितमिति यतः कीर्तिमानम्, अतो हुतमेवामृतमिति भावः । वाक्यार्थयोर्हेतु. हेतुमदावाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ यात्रायाः प्रतिबन्धः कश्चिदुस्तरस्तवास्तीत्याह
सहिष्ये शतमागांसि सूनोस्त इति यत्त्वया ।
प्रतीक्ष्यं तत्प्रतीक्ष्यायै पितृष्वस्र प्रतिश्रुतम् ॥ १०८ ॥ सहिष्य इति ॥ प्रतीक्ष्यायै पूज्यायै । 'पूज्यः प्रतीक्ष्यः' इत्यमरः । पितृष्वरे पितृमगिन्यै । 'विभाषा स्वसृपत्योः' इति विकल्पादलुगभावः । 'मातृपितृभ्यां स्वसा' इति षत्वम् । ते तव सूनोः शतमागांस्यपराधान् । 'आगोऽपराधो मन्तश्च' १'नाकिनामपि' इति पाठः.
शिशु. ६