________________
शिशुपालवधे तस्येत्यादिद्वयेन ॥ ये च तस्य चैद्यस्य मित्राणि नृपाः, ये च ते तवामित्रा नृपास्त उभये त्वयाभियुक्तमभियातमेनं चैद्यं गन्तारो गमिष्यन्ति । गमेः कर्तरि लुट् । अतः परे उक्तोभयव्यतिरिक्ताः तव मित्राणि तस्यामित्राश्चेत्यर्थः। त्वां गन्तारः ॥ ततः किमत आह
मखविघ्नाय सकलमित्थमुत्थाप्य राजकम् ।
हन्त जातमजातारेः प्रथमेन त्वयारिणा ॥ १०२ ॥ मखेति ॥ इत्थमनेन प्रकारेण । 'इदमस्थमुः' इति थमुप्रत्ययः । मखविघ्नाय मखविघाताय सकलं राजकं राजसमूहम् । 'गोत्रोक्ष-' इत्यादिना वुञ् । उत्थाप्य क्षोभयित्वा । हन्त इति खेदे। अजातारेरजातशत्रोर्युधिष्ठिरस्य त्वया प्रथमेनारिणा जातमजनि । नपुंसके भावे क्तः ॥ अस्तु सोऽपि शत्रुः, को दोषस्तत्राह
संभाव्य त्वामतिभरक्षमस्कन्धं स बान्धवः ।
सहायमध्वरधुरां धर्मराजो विवक्षते ॥ १०३॥ संभाव्येति ॥ बन्धुरेव बान्धवः स धर्मराजः अतिभरस्य क्षमः स्कन्धो यस्य स तम् । समानस्कन्धमित्यर्थः । त्वां सहायं संभाव्याभिसंधाय । अध्वरस्य धुरमध्वरधुराम् । 'ऋक्पूर्-' इत्यादिना समासान्तोऽच्प्रत्ययः। समासान्तानां प्रकृतिलिङ्गत्वात्तत्पुरुषे परवल्लिङ्गत्वे टाप् । विवक्षते वोढुमिच्छति । वहतेः स्वरितेतः सन्नन्ताल्लए । तथा हि-विरोधे विश्वासघातो, बन्धुद्रोहश्च तौ स्यातामिति भावः । विशेषणसाम्यात्प्रस्तुतयागधर्मप्रतीतेः समासोक्तिः ॥ ननु प्रतिश्रुत्याकरणे दोषः प्रागेव, परिहारे तु को दोष इत्यत आह
महात्मानोऽनुगृह्णन्ति भजमानात्रिपूनपि ।
सपत्नीः प्रापयन्त्यब्धि सिन्धवो नगनिम्नगाः॥ १०४ ॥ महात्मान इति ॥ महात्मानो निग्रहानुग्रहसमर्था भजमानाशरणागतारिपूनप्यनुगृह्णन्ति । किमुत बन्धूनिति भावः । अर्थान्तरं न्यस्यति–सिन्धवो महानद्यः समान एकः पतिर्यासां ताः सपत्नीः। 'नित्यं सपल्यादिषु' इति ङीपू नकारश्च । नगनिम्नगा गिरिनिर्झरिणीरब्धि प्रापयन्ति । स्वसौभाग्यं ताभ्यः प्रयच्छन्तीति भावः । अतः परिहारेऽप्यनर्थ इति भावः ॥ . तर्हि संप्रत्युपेक्षायामपि पश्चात्प्रार्थनया पार्थमार्जवयेयमित्यत आहचिरादपि बलात्कारो बलिनः सिद्धयेऽरिषु ।
छन्दानुवृत्तिदुःसाध्याः सुहृदो विमनीकृताः॥ १०५ ॥ १ 'सुबान्धवः' इति पाठः.