________________
द्वितीयः सर्गः।
संपादितेति ॥ संपादितं फलं लाभो, बाणाग्रं च यस्य सः । 'फलं लाभशराग्रयोः' इति शाश्वतः । सपक्षः ससुहृत्, कङ्कादिपत्रयुतश्च परेषां भेदकः शत्रुविदारणः बाणो बाणासुरः, शरश्च । गुणिना शौर्यादिगुणवता, अधिज्येन च तेन चैयेन कर्मणे प्रभवति कार्मुकम् । 'कर्मण उकञ्' । तेनैव संधानं संधिमेष्यति । अतो नैकाकीति भावः। अत्राप्युपमा श्लेषो वा मतभेदात् ॥
ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः।
तमःस्वभावास्तेऽप्येनं प्रदोषमनुयायिनः ॥ ९८॥ ये चेति ॥ ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयो राजानस्तमःस्वभावास्तमोगुणात्मका अतएव तेऽपि प्रदोषं प्रकृष्टदोषम् । 'प्रदोषौ दुष्टराज्यशौ' इति वैजयन्ती । तामसमेवैनं चैद्यमनुयायिनोऽनुयास्यन्ति । सादृश्यादिति भावः । 'भविष्यति गम्यादयः' इति णिनिर्भविष्यदर्थे । 'अकेनोर्भविष्यदाधमर्ययोः' इति षष्ठीप्रतिषेधाद्वितीया । यथा ध्वान्तं रजनीमुखमनुयाति तद्वदिति वस्तुनालंकारध्वनिः ॥ ननु बाणादयोऽस्मादिभिः कृतसंधाना इदानीं न विराध्यन्तीत्यत आहउपजापः कृतस्तेन तानाकोपवतस्त्वयि ।
आशु दीपयिताल्पोऽपि सानीनेधानिवानिलः ॥ ९९ ॥ उपेति ॥ तेन चैयेन कृतोऽल्पोऽप्युपजापो भेदः । ‘भेदोपजापौ' इत्यमरः । 'त्वय्याकोपवतस्तान्बाणादीन् अनिलः साग्नीनेधानानिन्धनानीव । 'काष्ठं दाविन्धनं वेध इध्ममेधः समिस्त्रियाम्' इत्यमरः । आशु दीपयिता सद्यः प्रज्वलयिष्यति । दीपेय॑न्ताल्लुद । अन्तर्वैराः संहिताः आपदि सति रन्ध्रे सद्यो विश्लिष्यन्तीति भावः॥ ततः किमत आह
बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।
संभूयाम्भोधिमभ्येति महानद्या नगापगा ॥ १० ॥ बृहदिति ॥ बृहत्सहायो महासहायवान्क्षोदीयान्क्षुद्रतरोऽपि । 'स्थूलदूर-' इत्यादिना यणादिपरलोपः पूर्वगुणश्च । कार्यस्यान्तं पारं गच्छति । तथाहि-अपां समूह आपम् । 'तस्य समूहः' इत्यण् । तेन गच्छतीत्यापगा नगापगा गिरिनदी महानद्या गङ्गादिकया संभूय मिलित्वाम्भोधिमभ्येति । क्षुद्रोऽप्येवं तादृक् । महावीरश्चैद्यस्तु किमु वक्तव्य इत्यपिशब्दार्थः । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ किंच न केवलं शत्रोरसाध्यत्वं मित्रविरोधश्चाधिकोऽनर्थकर इत्याह--
तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः ।
अभियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे ॥१०१ ॥ १ 'ये चान्ये चो' इति पाठः.