________________
५८
शिशुपालवधे
स्थानि स्थिराणि । कालान्तरक्षमाणीत्यर्थः । 'ग्लाजिस्थश्च-' इति ग्स्नुः । बलवन्ति च परपीडाक्षमाणि च भवन्ति । श्लिष्टपरम्परितरूपकम् ॥
स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनाम् ।
अयथाबलमारम्भो निदानं क्षयसंपदः॥ ९४ ॥ स्थाने इति ॥ किंच स्थाने शक्यविषये शमवतां क्षमावतामङ्गिनां सप्तागिनां राज्ञां, शरीरिणां च शक्त्या प्रभावाद्यनुसारेण, बलेन च व्यायामे व्यापारे । षाड्गुण्यप्रयोगे गमनादौ च सतीत्यर्थः । वृद्धिरुपचयः । राज्यस्य, शरीरस्य चेति भावः । विपक्षे बाधकमाह-अयथाबलं शक्त्यतिक्रमेण । 'यथा सादृश्ये' इत्यव्ययीभावे नसमासः। आरम्भो व्यायामः। क्षयसंपदोऽत्यन्तहानेर्निदानमादिकारणम् । अङ्गानामिति भावः । तस्मादस्माकमकस्माच्चैद्यास्कन्दनमश्रेयस्करमिति भावः । अत्र विशेषस्यापि श्लिष्टत्वाच्छब्दशक्तिमूलो वस्तुना वस्तुध्वनिः । अतो द्वयानामङ्गिनामौपम्यं च गम्यत इति संक्षेपः ॥ फलितमाह
तदीशितारं चेदीनां भवांस्तमवमस्त मा ।
निहन्त्यरीनेकपदे य उदात्तः स्वरानिव ॥ ९५ ॥ तदिति ॥ तत्तस्मादशक्यार्थस्याकार्यत्वात्तं चेदीनामीशितारं शिशुपालं भवान्मावमस्त नावमन्यस्व । मन्यतेर्माङि लुङ् । अनुदात्तत्वान्नेडागमः । कुतः । यश्चैद्यः उदात्तः स्वराननुदात्तादीनिवारीनेकपदे एकस्मिन्पदन्यासे, सुप्तिङन्तलक्षणे च निहन्ति हिनस्ति नीचैः करोति च । अतिशूरत्वात् । 'अनुदात्तं पदमेकवर्जम्' इति परिभाषाबलाच्चेति भावः ॥ न चायमेकाकी किं नः करिष्यतीति मन्तव्यमित्याह
मा वेदि यदसावेको जेतव्यश्चेदिराडिति ।
राजयक्ष्मेव रोगाणां समूहः स महीभृताम् ॥ ९६ ॥ मा वेदीति ॥ असौ चेदिराट् एकः एकाकी अतो जेतव्यः सुजय इति मा वेदि मा ज्ञायि । वेत्तेः कर्मणि माङि लुङ् । यद्यस्मात्स चेदिराद राज्ञश्चन्द्रस्य यक्ष्मा, राजा चासौ यक्ष्मेति वा राजयक्ष्मा क्षयरोगो रोगाणामिव महीभृतां समूहः समष्टिरूपः । यथाह वाग्भटः--'अनेकरोगानुगतो बहुरोगपुरःसरः । राजयक्ष्मा क्षयः शोषो रोगराडिति च स्मृतः ॥ नक्षत्राणां द्विजानां च राज्ञो. ऽभूद्यदयं पुरा । यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः ॥' इति। अतो दुर्जेय इति भावः । एतेन 'चिरस्य मित्रव्यसनी सुदमो दमघोपजः' इति निरस्तम् ।। अथास्य सर्वराजसमष्टितामेव द्वाभ्यां व्याचष्टे
संपादितफलस्तेन सपक्षः परभेदनः। कार्मुकेणेव गुणिना बाणः संधानमेष्यति ॥ ९७॥