________________
द्वितीयः सर्गः ।
वंशस्तत्कालविहितः स्वर उच्यते तस्य स्वरस्येतराः षड्जादयः विजिगीषोर्नृपतयोऽन्ये मण्डलपरिवर्तिनो राजानः परिवारतां पोप्यतां प्रयान्ति । तत्कार्यमेव साधयन्तीत्यर्थः । तस्माद्विमृश्य कर्तव्यमित्यर्थः ॥
अप्यारभमाणस्य विभोरुत्पादिताः परैः । व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥ ९१ ॥
अपीति ॥ किंच अनारभमाणस्य स्वयमकिंचित्कुर्वाणस्यापि विभोः प्रभोः, व्यापकस्य च परैरन्यैर्नृपतिभिः शङ्खभेर्यादिभिश्च उत्पादिताः संपादिताः, जनिताश्वार्थाः प्रयोजनानि विहायस आकाशस्य शब्दा इव गुणतां विशेषणतां कारणत्वाद्गुणत्वं व्रजन्ति । शक्तो हि राजा स्वयमुदासीन एवाकाशवत्स्वमहिम्नैव कार्यदेशं व्याशुवन्शब्दानिव सर्वार्थानपि स्वकीयतां नयतीत्यर्थः । 'गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती ॥ यातव्यपार्ष्णिग्राहादिमालायामधिकद्युतिः । एकार्थतन्तु प्रोतायां नायको नायकायते ॥ ९२ ॥
यातव्येति ॥ किंच एकार्थ एकप्रयोजनं स एव तन्तुः सूत्रं तत्र प्रोतायाम् । maratटाभिलाषिण्यामित्यर्थः । प्रपूर्वाजः कर्मणि क्तः । ' वचिस्वपि - ' इत्यादिना संप्रसारणम् । यातव्योऽभिषेणयितव्योऽरिः पाणि गृह्णातीति पाणिग्राहः पृष्ठानुधावी । कर्मण्यण् । तावादी येषां ते पूर्वोक्ताः पङ्क्तिशः स्थितास्त एव माला रत्नमालिका तस्यामधिकद्युतिर्महातेजा नायकः शक्तिसंपन्नो जिगीषुनयकायते मध्यमणिरिवाचरति । स्वयमेव सर्वोत्कर्षेण वर्तत इत्यर्थः । तस्माद्विमृश्य कर्तव्यमिति भावः । 'नायको नेतरि श्रेष्ठे हारमध्यमणावपि' इति विश्वः । 'उपमानादाचारे' इति क्यङ् । 'अकृत्सार्वधातुक -' इति दीर्घः । नायकायते इत्युपमा । अन्यथानुशासनविरोधात् । एकार्थतन्त्वित्यत्र तु रूपकमधिष्ठानतिरोधानेनारोप्यमाणतन्तुत्वस्यैवोद्भटत्वात्प्रोतत्वसिद्धेस्तदेव युक्तम् । तद्बलात्पाणिग्राहादिमालायामित्यत्राभिरूपकमेव । तदनुप्राणिता चेयमुपमेत्यङ्गाङ्गिभावेन तयोः संकरः ॥ अथ विमृश्यकरणप्रकारमाह
पाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षो रसायनम् । भवन्त्यस्यैवमङ्गानि स्थास्तूनि बलवन्ति च ॥ ९३ ॥ षाङ्गुण्यमिति ॥ शक्तिं प्रभावादित्रयं बलं चापेक्षत इति शक्त्यपेक्षः सन् । पचाद्यच् । 'शक्तिर्बले प्रभावादौ' इति विश्वः । षड्गुणा एव षाडुण्यं संधिविग्रहादिषट्कम् । चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः । तदेव रसायनमौषधविशेषमुपयुञ्जीत सेवेत । 'रसायनं विहंगेऽपि जराव्याधिभिदौषधे' इति विश्वः । एवं सत्यस्य प्रयोक्तुरङ्गानि स्वाम्यादीनि । 'स्वामी जनपदोऽमात्यः कोशो दुर्गं बलं सुहृत् । राज्यं सप्तप्रकृत्यङ्गं नीतिज्ञाः संप्रचक्षते ||' इति । गात्राणि च
१ 'शक्त्यपेक्षं' इति पाठः.
,
-
५७
,