________________
३२८
शिशुपालवधे त्रापि क्लिष्टमित्यर्थः । अत्र वैमुख्येऽप्याभिमुख्यमिति विरोधस्य प्रतिमास्थिति निरासाद्विरोधाभासोऽलंकारः ॥ तृणवाञ्छया मुहुरवाञ्चिताननानिचयेषु यत्र हरिताश्मवेश्मनाम् । रसनाग्रलग्नकिरणाङ्कुराञ्जनो हरिणान्गृहीतकवलानिवैक्षत ॥५६॥
तृणेति ॥ यत्र सभायां हरिताश्मनां मरकतमणीनां गृहाणाम् । 'गारुमत मरकतमश्मगर्भो हरिन्मणिः' इत्यमरः। निचयेषु सङ्केषु तृणवाञ्छया तृणाशया मुहुरवाञ्चिताननान्नमितमुखान् अत एव रसनाग्रेषु लग्नाः किरणा अङ्कुरा इव येषां ते तान् । अत एव गृहीतकवलानुपात्ततृणग्रासानिव स्थितान्हरिणान् जन ऐक्षत ईक्षितवान् । ईक्षतेर्लङि 'आडजादीनाम्' इत्याद 'आटश्च' इति वृद्धिः । अत्र तृणवाञ्छयेति हरिणानां मरकतेषु तृणभ्रान्तेान्तिमदलंकारः। तन्मूला चेयं गृहीतकवलत्वोत्प्रेक्षेति संकरः ॥ विपुलालवालभृतवारिदर्पणप्रतिमागतैरभिविरेजुरात्मभिः।। यदुपान्तिकेषु दधतो महीरुहः सपलाशराशिमिव मूलसंहतिम् ५७
विपुलेति ॥ यदुपान्तिकेषु यस्याः सभाया उपान्तिकेषु समीपेषु महीरुहो वृक्षाः विपुलेष्वालवालेषु मूलजलाधारेषु । 'स्थादालवालमावालम्' इत्यमरः । भृतानि संभृतानि वारीण्येव दर्पणास्तेषु प्रतिमागतैः प्रतिबिम्बतां गतैः । प्रतिविम्बितैरित्यर्थः । आत्मभिः । स्वमूर्तिभिरित्यर्थः । सपलाशराशिं सपत्रसंततिं मूलसंहतिं दधत इव दधाना इवाभिविरेजुः । स्वालवालेषु स्वप्रतिबिम्बितैरधोमुखैः मूलेष्वपि सपत्रा इव रेजुरित्युत्प्रेक्षा ॥ उरगेन्द्रमूर्धरुहरत्नसंनिधेर्मुहुरुन्नतस्य रसितैः पयोमुचः । अभवन्यदङ्गणभुवः समुच्छ्रसन्नववालवायजमणिस्थलाकुराः॥५८॥
उरगेन्द्रेति ॥ उरगेन्द्राणां मूर्धसु रुहाणि रूढानि । इगुपधलक्षणः कः । तेषां रत्नानां संनिधेः संनिधानान्मुहुरुन्नतस्य । यदायदा तत्संनिधिस्तदातदोदितस्येत्यर्थः । पयोमुचो मेघस्य रसितैः स्तनितैर्यदङ्गणभुवो यस्याः प्राङ्गणनदेशाः समुच्छ्वसन्तः प्रादुर्भवन्तो नवाः प्रत्यग्रा वालवायजमणिस्थलाङ्कुरा वैदूर्यभूप्ररोहा यासु तास्तथोक्ता अभवन् । 'वैदूर्य वालवायजम्' इत्यमरः । वालवायो नाम वैदूर्यप्रभवो देशविशेषः । उरगेन्द्रमूर्धन्यरत्नाङ्कुरैः सहोदितमेघध्व. नेर्विदूरभूमिरुद्भिन्नाङ्कुरा भवतीति प्रसिद्धिः। तदुक्तम्-'उरगमूर्धन्यरत्नसन्निधानादकालेऽपि मेघा गर्जन्तीति वार्ता' । केचित्तु यत्रैवोरगरत्रं मेघरसितं च तत्रैव वैदूर्यभूमिः । अत्र समृद्धिमद्वस्तुवर्णनादुदात्तालंकारभेदः । तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते' इति लक्षणात् ॥ नलिनी निगूढसलिला च यत्र सा स्थलमित्यधः पतति या सुयोधने । अनिलात्मजप्रहसनाकुलाखिलक्षितिपक्षयागमनिमित्ततां ययौ ५९