________________
त्रयोदशः सर्गः।
३२७ लोहितमणयो लोहितकाः पद्मरागाः । 'लोहितान्मणौ' इति कन्प्रत्ययः । तैनिमिता भुवो भूमीविरलाः शैवला यासु ताः जमदग्निसूनोः परशुरामस्य पितॄणां तर्पणीस्तृप्तिकरीरप इवेत्युपमा । या सभा वहति स्म । जामदम्यः क्षत्रियात्रैः पञ्चशो ह्रदानुत्पाद्य ताभिरद्भिः पितृनतर्पयत् , ताश्च रुधिरप्रकृतिकत्वाद्रक्तवर्णा एवेति पुराणम् ॥ विशदाश्मकूटघटिताः क्षपाकृतः क्षणदासु यत्र च रुचैकतां गताः। गृहपतयश्चिरमतीयिरे जनैस्तमसीव हस्तपरिमर्शसूचिताः ॥५३॥
विशदेति ॥ किंचेति चार्थः । यत्र सभायां विशदाश्मकूटघटिताः स्फटिकशिलासंघातनिर्मिता अत एव क्षणदासु क्षपाकृतो निशाकरस्य रुचा चन्द्रिकयैकतां सावादभेदं गताः अत एव तमसीव हस्तपरिमर्शसूचिताः । पाणिस्पर्शकगम्या इत्यर्थः । गृहपतयो जनैश्विरमतीयिरेऽतिक्रान्ताः । पुरोगतान्यपि स्फटिकभवनानि चन्द्रिकाभ्रमादतीत्य गत्वा पश्चात्करपरामर्शः कथंचित्याप्यन्त इत्यर्थः । अत्र प्रकृतानां स्फटिकवेश्मनां गुणसाम्यादप्रस्तुतचन्द्रिकैक्योक्त्या सामान्यालंकारः । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् ॥ निलयेषु नक्तमसिताश्मनां चयविसिनीवधूपरिभवस्फुटागसः । मुहुरत्रसद्भिरपि यत्र गौरवाच्छशलाञ्छनांशव उपांशु जनिरे ५४
निलयेप्विति ॥ यत्र सभायां निलयेषु नक्तं रात्रौ बिसिन्यो दीर्घिकापद्मिन्यस्ता एव वध्वस्तासां परिभवेन निमीलितेन दूषणेन च स्फुटागसः स्पष्टापराधाः शशलाञ्छनांशवश्चन्द्रपादाः । अत्रसद्भिरत्रस्यद्भिरपि, निर्दोषैरपि इति चार्थः । 'त्रासो भीमणिदोषयोः' इति विश्वः । 'वा भ्राश-' इत्यादिना श्यनभावपक्षे शतृप्रत्ययः। असिताश्मनामिन्द्रनीलमणीनां चयैः समूहैः गौरवात्स्वयं प्रभूतत्वात् , संभावितत्वाच्च उपांशु अंशुसमीपे, रहश्च । 'रहश्चोपांशु चालिङ्गे' इत्यमरः । मुहुजेनिरे तिरोहिताः, मारिताश्च । हन्तेः कर्मणि लिट् । समीपगताश्चन्द्रांशवः प्रभूतै. रिन्द्रनीलांशुभिस्तिरस्कृता इत्यर्थः । अन्यत्रान्तःपुरद्रोहिणो निर्भीकैरपि संभावितै१प्कीर्तिभयाद्र्ट हन्यन्त इति भावः । अत्र बिसिनीनां वधूत्वरूपणात्तत्परिभा. विनां चन्द्रांशूनां धूर्तकामुकत्वरूपणप्रतीतेरेकदेशविवर्तिरूपकं तच्च गौरवादुपांशु जग्निरे च श्लेषणात्रसद्भिरपीति विरोधेन च संकीर्यते ॥ सुखिनः पुरोभिमुखतामुपागतः प्रतिमासु यत्र गृहरत्नभित्तिषु । नवसंगमैरविभरुः प्रियाजनैः प्रमदं त्रपाभरपरा खैरपि ॥ ५५ ॥
सुखिन इति ॥ यत्र सभायां नवः संगमो येषां तैनवसंगमैरत एव पाभरेण पराङ्मुखैर्विमुखैरपि गृहाणां रत्नभित्तिषु प्रतिमासु तत्संक्रान्तप्रतिबिम्बेपु पुरोऽग्रेऽभिमुखतामुपातैः प्रियाजनैः कान्ताजनैः सुखिनो भोगिनः प्रमदं हर्षमबिभरुबिभ्रति स्म । भृजो लङि 'श्लौ' इति द्विर्भावे 'सिजभ्यस्तविदिभ्यश्च' इति झेर्जुसादेशः । स्त्रीणां वैमुख्येऽपि तत्प्रतिविम्बाभिमुख्यात्युंसां सुखमेव, स्त्रीणां तु उभय