________________
· शिशुपालवधे
सान्दैधूपानामगुरुधूपानां धूमैः कृतो रेणुविभ्रमो रजोभ्रमो याभिस्ताः प्रचुर बहुलमुद्धतेपूच्छ्रितेषु ध्वजेषु ध्वजस्तम्भेषु विलम्बीनि विलम्बमानानि वासांसि पताका यासु ताः पुरवीथयोऽतिपेतिरेऽतिपातिताः । अतिक्रान्ता इत्यर्थः । पतेः कर्मणि लिट् । एत्वाभ्यासलोपौ । अत्र सादृश्याद्भूरेणुभ्रान्त्या भ्रान्तिमदलंकारः । रेणुविभ्रमशब्देन रजोविलासस्यापि प्रतीतेस्तस्य विरजीकरणेन विरोधाद्विरोधाभासश्चत्यनयोरेकवाचकानुप्रवेशलक्षणः संकरः ॥ उपनीय विन्दुसरसो मयेन या मणिदारु चारु किल वार्षपर्वणम् । विदधेऽवधूतसुरसमसंपदं समुपासदत्सपदि संसदं स ताम् ॥५०॥
उपनीयेति ॥ मयेनासुरशिल्पिना वृषपर्वा नाम कश्चिदसुरेश्वरः वृषपर्वण इदं वार्षपर्वणम् । 'तस्येदम्' इत्यण् । चारु मनोहरं मणिरेव दारु काष्ठम् । मणिमयं स्तम्भादिकलापमित्यर्थः । तद्विन्दुसरसो हैमवतात्सरोविशेषादुपनीय समीपमानीय । किलेत्यैतिह्ये । या संसद्विदधे निर्मिता। अवधूताधरीकृता सुरसद्मसंपदिन्द्रभवनलक्ष्मीर्यया सा तां संसदं सभाम् । 'सभासमितिसंसदः । आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः' इत्यमरः । स हरिः सपदि समुपासदत्वापत् । सदेलङि 'पुषादि-' इति च्लेरङादेशः । पुरा किल खाण्डवदाहे पाण्डवेनाग्निदाहान्मोचितेन मयेन प्रत्युपकारार्थ पूर्वमात्मनैव बिन्दुसरसि गुप्तेन वृषपर्वगृहनिर्माणावशिष्टेन मणिशिलाकलापेन काञ्चनसभा धर्मराजाय निर्मितेति भारते सभावर्णनाङ्गत्वेनार्जुनमयचरितवर्णनादुदात्तालंकारः । 'प्रभू. तमहापुरुषचिन्तनं चेति सूत्रम् ॥
अथ दशभिः सभां वर्णयतिअधिरात्रि यत्र निपतन्नभोलिहां कलधौतधौतशिलवेश्मनां रुचौ । पुनरप्यवापदिव दुग्धवारिधिक्षणगर्भवासमनिदाघदीधितिः॥५१॥
अधीत्यादि ॥ अधिरात्रि रात्रिषु । विभक्त्यर्थेऽव्ययीभावः। यत्र सभायां नभोलिहामभ्रलिहाम् । क्विप् । कलधौतं रौप्यम् । 'कलधौतं रूप्यहेनोः' इत्यमरः । तद्वद्धौता धवलाः शिला येषां तानि वेश्मानि । स्फटिकभवनानीत्यर्थः । तेषां रुचौ प्रभायां निपतन्प्रविशन् । अनिदाघदीधितिरनुष्णरश्मिहिमांशुः । पुनरपि दुग्धवारिधौ क्षीराब्धौ क्षणं गर्भवासम् । न तु मथनात्प्रागिव चिरगभवासमिति भावः । अवापत्प्रापदिवेत्युत्प्रेक्षा । तया वेश्मनां चन्द्रमण्डलातिक्रमो व्यज्यते ॥ लयनेषु लोहितकनिर्मिता भुवः शितिरत्नरश्मिहरितीकृतान्तराः । जमदग्निसूनुपितृतर्पणीरपो वहति स या विरलशैवला इव ॥५२॥
लयनेष्विति ॥ लीयते एप्विति लयनानि तेषु गृहेषु शितिरवानां नीलमणीनां रश्मिभिर्हरितीकृतानि हरितवर्णीकृतान्यन्तराणि मध्यानि यासां ताः