________________
३२५
त्रयोदशः सर्गः। सतृष्णस्यैव सतश्चक्षुषि सतृष्णे सत्येव । अनादृत्येत्यर्थः । 'षष्ठी चानादरे' इति पष्टी । एष हरिरभियात्यभिगच्छतीत्यखिद्यत खेदं गतः । खिदेवादिकाकर्तरि लुङ् । अत्रोत्प्रेक्ष्यते । नेति । यो जन एनं हरिं सततमीक्षते असावपि खलु वितृप्णतां न व्रजतीति न विवेद । नित्यदर्शनेऽप्यपूर्ववदेव भवतीति नाबुध्यतेत्यर्थः । वेद चेन्नाखिद्यतेति भावः । अत्राखिद्यतेति स्त्रीणां प्रारब्धहरिवीक्षणसुखविच्छेदकृतविपादाख्यसंचारिभावनिबन्धनात्प्रेयोलंकारः । तदुत्थापिता चेयमुक्तावेदनोत्प्रेक्षेति संकरः । 'प्रारब्धकार्यासिद्ध्यादेविषादः सत्त्वसंक्षयः' इति दशरूपके । सत्त्वसंक्षयश्चित्तभङ्गः ॥ अकृतस्वसमगमनादरः क्षणं लिपिकर्मनिर्मित इव व्यतिष्ठत । गतमच्युतेन सह शून्यतां गतः प्रतिपालयन्मन इवाङ्गनाजनः ४७
अकृतेति ॥ अङ्गनाजनः अच्युतेन सह गतं मनः प्रतिपालयन्प्रतीक्षमाण इवेत्युत्प्रेक्षा । शून्यतां निरोजस्कतां गतः । अकृतस्वसद्मगमनादरः निवृत्तनिजगृहप्राप्त्यपेक्षः सन् लिपिकर्मनिर्मितः चित्रलिखित इवेत्युत्प्रेक्षा । क्षणं व्यतिष्ठत चिस्पन्दमास्तेत्यर्थः । 'समवप्रविभ्यः स्थः' इत्यात्मनेपदम् । अतः शून्यतानुभावाञ्चिन्तावगम्यते । 'ध्यानं चिन्ता हितानातेः शून्यताश्वासतापकृत्' इति दशरूपके । अत्रोत्प्रेक्षयोः सापेक्षत्वात्संकरः ॥ अलमैर्मदेन मुदृशः शरीरकैः स्वगृहान्प्रति प्रतिययुः शनैः शनैः । अलघुप्रसारितविलोचनाञ्जलिद्रुतपीतमाधवरसौघनिर्भरैः॥४८॥ __ अलसैरिति ॥ अलघु अधिकं प्रसारितैर्विलोचनैरेवाञ्जलिभिद्रुतं सत्वरम् । 'लघु क्षिप्रमरं द्रुतम्' इत्यमरः । पीतो यो माधवो हरिरेव रसोऽमृतम् । अन्यत्र मधु मद्यं तत्संबन्धि रसो माधुर्यं माधवरसः। 'रसो रागे विष वीर्य तिक्तादौ पारदे दवे । रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः ॥' इति वैजयन्ती । तस्यौधः समूहम्तेन निर्भरैर्दुभैरैः । गुरुभिरिति यावत् । अत एव सदेनालसैमन्थरः शरीरकाणि। अल्पशरीराणीत्यर्थः । ‘अल्पे' इति परिमाणे कन्प्रत्ययः । तैरुपलक्षिताः सुदृशः शनैःशनैः स्वगृहान्प्रति प्रतिययुः प्रतिनिर्गताः । स्वयं लघून्यपि गव्याणि रसद्वभरणाद्गुरु भवन्तीति भावः। अत्र माधवरसौघनिर्भरत्वविशेषणगत्या शनैःशनैः प्रतियानहेतुत्वाकार्यहेतुकं काव्यलिङ्गं तच्च माधवरसेनेति श्लेषमूलातिशयोक्त्युत्थापितमिति संकरः॥ नवगन्धवारिविरजीकृताः पुरो धनधूपधूमकृतरेणुविभ्रमाः। प्रचुरोद्धतध्वजविलम्बिवाससः पुरवीथयोऽथ हरिणातिपेतिरे ४९
नवेति ॥ अथ पुरप्रवेशानन्तरं हरिणा पुरः पूर्वं नवगन्धवारिभिर्गन्धवासितोदकैर्विरजीकृता अविरजसो विरजसः संपद्यमानाः कृताः । 'अरुमनश्चक्षुश्चेतोरहोरजसा लोपश्च' इत्यभूततद्भावे विप्रत्यये सलोपः। 'अस्य च्वौ' इतीकारः । धनैः
शिशु० २८