________________
चतुर्दशः सर्गः।
३३३ नात् । न लज्जते। तस्योत्सुकत्वादिति भावः । किंतु वक्तुः स्तोतुरेवाधिका त्रपा भवति । भयादिना मिथ्यावाचकत्वादिति भावः । प्रकृते तु नैवमित्याह-तव प्रियं वदन् । त्वां स्तुवन्नित्यर्थः । ब्रीडां नैति । अनन्तगुणाधारे त्वयि बहोरपि प्रियस्यामिथ्यात्वादिति भावः । किंतु स्तवनेनात्रभवता पूज्येनैव हीमता भूयते प्रत्युत त्वमेवात्र जिरुपीत्यर्थः । महतामनुत्सुकत्वादिति भावः । 'पूज्यस्तत्रभवान्' इति सजनः । 'इतराभ्योऽपि-' इति सार्वविभक्तिके त्रल्प्रत्यये 'सुप्सुपा' इति समासः॥ तोपमेति वितथैः स्तवैः परस्ते च तस्य सुलभाः शरीरिभिः । अस्ति न स्तुतिवचोऽनृतं तव स्तोत्रयोग्य न च तेन तुष्यसि ॥३॥
तोषमिति ॥ परस्त्वदन्यः वितथैरसत्यभूतैः स्तवैः स्तोत्रैः । 'स्तवः स्तोत्रं नुतिः स्तुतिः' इत्यमरः । तोषमुत्सुकतामेति । ते च तस्य परस्य ते मिथ्यास्तवाः शरीरिभिः प्राणिभिः सुलभाः । असंबद्धप्रलापानामनिरर्गलत्वादिति भावः । त्वयि तु नैवमित्याह-अस्तीति । हे स्तोत्रयोग्य । गुणाकरत्वादिति भावः । अत एव तव संबन्धि स्तुतिवचोऽनृतं नास्ति न भवति, तेन स्तुतिवचसा न च तुष्यसि न प्रसीदसि । गम्भीरत्वादिति भावः । अत्र श्लोकद्वये पुरुषान्तरादुपमानभूतादाधिक्यकथनाव्यतिरेकालंकारः॥ वह्वपि प्रियमयं तव ब्रुवन्न बजत्यनृतवादितां जनः। संभवन्ति यददोपदूषिते सार्व सर्वगुणसंपदस्त्वयि ॥ ४॥
बह्वपीति ॥ अयं जनः । स्वयमित्यर्थः परामृश्यते। बह्वपि तव प्रियं बुवन्सन् अनृतवादितां मिथ्यावादित्वं न व्रजति न गच्छति । यद्यस्मात् हे सार्व, सर्वहितत्वात्सार्वः तत्संबोधने । 'सर्वपुरुषाभ्यां णढो' इति णप्रत्ययः। दोषदूषितो न भवतीत्यदोषदूषिते सर्वागुणवर्जिते त्वयि सर्वगुणसंपदः संभवन्ति । अनारोपितगुणवादो भूयानपि न विपर्यंतीति भावः। अत्रोत्तरवाक्यार्थेन पूर्व वाक्यार्थसमर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ सा विभूतिरनुभावसंपदां भूयसी तव यदायतायति । एतदूढगुरुभार भारतं वर्षमद्य मम वर्तते वशे ॥ ५॥
सेति ॥ हे ऊढगुरुभार । विश्वभरत्वादिति भावः । एतत् भरतस्य राज्ञ इदं भारतं भारताख्यं वर्षम् । 'वर्षोऽस्त्री भारतादौ चं' इति हैमः। 'लोकोऽयं भारतं वर्षम्' इत्यमरः । अद्येदानीमायतायति बहुतरकालम् । स्थिरं यथा तथेत्यर्थः । 'उत्तरः काल आयतिः' इत्यमरः । मम वशे आयत्ततायां वर्तत इति यावत् । 'वश आयत्ततायां च' इति विश्वः । सा तद्वशवर्तनम् । विधेयप्राधान्या. स्त्रीलिङ्गता। तवानुभावसंपदां सामर्थ्यातिशयानां भूयसी महती विभूतिर्महिमा । कार्यमिति यावत् । त्वत्प्रसादलब्धमिदमैश्वर्यमित्यर्थः । अत्र निजैश्वर्यस्य भगवदनुभावसंपदं विना संबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः ॥