________________
३३४
शिशुपालवधे
तदेवं स्तुत्या हरिमभिमुखीकृत्य कृत्यांशमावेदयति — सप्ततन्तुमधिगन्तुमिच्छतः कुर्वनुग्रहमनुज्ञया मम । मूलतामुपगते खलु त्वयि प्रापि धर्ममयवृक्षता मया ॥ ६ ॥
सप्तेति ॥ सप्त तन्तवः संस्था यस्य तं सप्ततन्तुं क्रतुम् | 'सप्ततन्तुर्मखः ऋतुः' इत्यमरः । अधिगन्तुं प्राप्तुमिच्छतो ममानुज्ञयानुज्ञादानेनानुग्रहं प्रसादं कुरु । साहाय्यं कुर्वित्यर्थः । स्वतः समर्थस्य किं मदनुग्रहेणेत्याह - हे प्रभो, त्वयि मूलतां मुख्यकारणतामङ्घित्वं चोपगते सति मया धर्ममयवृक्षता प्रापि प्राप्ता । प्राप्नोतेः कर्मणि लुङ् । प्रागपि त्वदनुग्रहादेव धर्ममर्जयन्धर्मराजोऽहमस्मीति भावः । अत्र नृपस्य धर्मवृक्षत्वेन हरेस्तन्मूलत्वेन रूपणात्सावयवरूपकम् । तेन त्वदनुग्रहः सर्वथा प्रार्थनीयो मया धर्मार्थिनेति तात्पर्यं व्यज्यते ॥ संभृतोपकरणेन निर्मलां कर्तुमिष्टिमभिवाञ्छता मया । त्वं समीरण इव प्रतीक्षितः कर्षकेण बलजान्पुपूषता ॥ ७ ॥
संभृतेति ॥ निर्मलां निर्दोषामिष्टिं यागम् । यजेः स्त्रियां क्तिन् ' वचिस्वपि - ' इत्यादिना संप्रसारणम् । कर्तुमभिवाञ्छता अत एव संभृतोपकरणेन संपादित - साधनेन मया वलजान्धान्यराशीन् । 'वलजो धान्यराशिः स्यात्' इति वैजयन्ती । पुपूषता पवितुं साधयितुं निर्बुसीकर्तुमिच्छता । पुनातेः सन्नन्तालटः शत्रादेश: ' सनि ग्रहगुहोश्च' इति चकारादिटः प्रतिषेधः । कर्षकेण कृषीवलेन समीरण वायुरिव प्रतीक्षितः । प्रवाते शूर्पादिना धान्यस्योत्क्षेपः पवनम् । तद्वातं विनेव त्वां विना समाहृतसंभारेणापि मया यागो दुष्कर इति भावः ॥ वीतविघ्नमनघेन भाविता संनिधेस्तव मखेन मेऽधुना । को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ ॥ ८ ॥
वीतविघ्नमिति ॥ अधुना तव संनिधेर्हेतोर्मे मखेन कतुना कर्त्रा वीतविघ्नविघ्नं अनघेन निर्दोषेण भाविता । भविष्यत इत्यर्थः । भावे लट् 'स्यचिचसीयुट्-' इत्यादिना लुटि चिण्वद्भावाद्वृद्धिः । तथा हि- अशीतदीधितावुष्णांशावास्थितोद प्राप्तोदये सति को वासरश्रियं दिनशोभां विहन्तुमलं शक्तः । न कोऽपीत्यर्थः । अत्र हरिमरीचिमालिनोर्वाक्यभेदाद्विम्बप्रतिविम्बतया संनिहितद्योतितया समानधर्मतया निर्दोषो दृष्टान्तालंकारः । ' यत्र वाक्यद्वये बिम्बप्रतिबिम्बतयोच्यते । सामान्यधर्मवाक्योक्तेः स दृष्टान्तो निगद्यते ॥' इति लक्षणात् ॥ स्वापतेयमधिगम्य धर्मतः पर्यपालयमवीवृधं च यत् । तीर्थगामि रवै विधानतस्तजुषस्व जुहवानि चानले ॥ ९ ॥
स्वापतेयमिति ॥ यत्स्वपतौ स्वामिनि साधु स्वापतेयं वित्तम् | 'पथ्यतिथि - वसतिस्वपतेर्दज्' | 'द्रव्यं वित्तं स्वापतेयम्' इत्यमरः । धर्मतः क्षत्रियस्य विजित