________________
चतुर्दशः सर्गः।
३३५
मिति शास्त्रोक्तप्रकारादित्यर्थः । अधिगम्य लब्ध्वा यत्नेन पर्यपालयं पालितवान् , अवीवृधं वृद्धिं च प्रापितवान् । तत्तीर्थगामि विप्राधीनं करवै करिष्यामि । विधानतः ‘पालितं वर्धयेन्नित्यं वृद्धं पात्रेषु निर्वपेत्' इति स्मरणात् । तच्च पात्रं त्वमेवेत्याह-तत्सर्वं जुषस्व सेवस्व । सदैव भुङ्क्षवेत्यर्थः । 'जुपी प्रीतिसेवनयोः' इति धातोलौट । अनले जुहवानि च जुहुयाम् । तन्मुखेनापि तवैव भोक्तृत्वादिति भावः । जुहोतेः संप्रश्नलोटि मेर्निरादेशः ॥ पूर्वमङ्ग जुहुधि त्वमेव वा स्नातवत्यवभृथे ततस्त्वयि । सोमपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना ॥१०॥
पूर्वमिति ॥ वेति पक्षान्तरे। अथवेत्यर्थः । अङ्ग हे कृष्ण, 'अथ संबोधनार्थकाः । स्युः प्याटपाडङ्ग हे है भोः' इत्यमरः। पूर्वं त्वमेव जुहुधि । यजस्वेत्यर्थः । 'हुझल्भ्यो हेधिः' इति हेर्धिरादेशः । सोमपायिनि त्वयि अवभृथे यज्ञे। 'दीक्षान्तोऽवभृथो यज्ञे' इत्यमरः। स्नातवति सति ततोऽनन्तरं मया वाञ्छित उत्तमो वितानो राजसूयाख्यः । 'ऋतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके' इत्यमरः । तेन यथा याजिना भविष्यते । भावे लुट् । त्वयि इष्टवति पश्चादहं यक्ष्य इत्यर्थः । अत्र श्लोकद्वयेन हरेर्यागासंबन्धे तत्संबन्धोक्तेरतिशयोक्तिः ॥ किं विधेयमनया विधीयतां त्वत्प्रसादजितयार्थसंपदा । शाधि शासक जगत्रयस्य मामाश्रवोऽस्मि भवतः सहानुजः॥११॥
किमिति ॥ अथवा त्वत्प्रसादेन त्वदनुग्रहेण जितया जयलब्धयानयार्थसंपदा धनसंपदा किं विधेयं किमनुष्ठेयं विधीयतां त्वयैव क्रियताम् । अहं तु अस्वतन्त्र इत्याह-हे जगत्रयस्य शासक । न तु ममैवेति भावः । मां शाधि । शिक्षयेत्यर्थः । शासेलोटि 'हुझल्भ्यो हेर्धिः' इति धिरादेशः। 'झलो झलि' इति सकारलोपः । सहानुजः सन् सानुजः 'वोपसर्जनस्य' इति सहशब्दस्य सभावविकल्पः । भवतस्तवाश्रवो विधेयोऽस्मि । 'विधेयो विनयग्राही वचने स्थित आश्रवः' इत्यमरः । अत्रानाश्रवस्याश्रवत्वसंबन्धोक्तेरतिशयोक्तिरिति दशश्लोक्यामाचार्यमतेऽतिप्रियतराख्यानात्प्रेयोऽलंकारः। 'प्रेयः प्रियतराख्यानम्' इति लक्षणात् । आधुनिकास्तु भावनिबन्धने प्रेयोऽलंकार इति लक्षयन्ति स चोन्नीतस्तत्र तत्रोन्नेप्यते च ॥ तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः। व्याजहार दशनांशुमण्डलव्याजहारशबलं दधद्वपुः ॥ १२ ॥
तमिति ॥ अथानन्तरं विष्टराविव श्रवसी यस्य स विष्टरश्रवाः । 'विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः' इत्यमरः । इति एतादृशं तं बदन्तं नृपम् । समस्तभूभृतः सर्वान्नृपाश्रावयन् दशनांशुमण्डलमिति व्याजोऽपदेशो यस्य तेन