________________
३३६
शिशुपालवधे
हारेण मुक्ताहारेण शबलं शारं वपुर्दधद्व्याजहार व्याहृतवान् । अत्र दशनांशुमण्डलस्य व्याजशब्देनासत्यत्वप्रतिपादनादपह्नवभेदः ॥
यदुक्तं सा विभूतिरित्यादि तत्रोत्तरमाह
सादिताखिलनृपं महन्महः संप्रति स्वनयसंपदैव ते । किं परस्य स गुणः समश्नुते पथ्यवृत्तिरपि यद्यरोगिताम् ॥ १३ ॥
सादितेति ॥ संप्रति ते तव महन्महस्तेजः स्वनयसंपदैव निजनीतिमाहिनैव सादिताखिलनृपं विजितसमस्तराजकं न तु मदनुभावादिति भावः । तथा हि पथ्या हिता वृत्तिरन्नपानादिक्रिया यस्य सोऽप्यरोगितामारोग्यं समनुते यदि प्राप्नोतीति चेत् । सोऽपि तदारोग्यमित्यर्थः । विधेयप्राधान्यात्पुंलिङ्गता । परस्य भिषजः स गुणः किं नेत्यर्थः । अपथ्यवृत्तेरारोग्यमौषधसाध्यत्वाद्भिषजो गुणोsस्तु, हितमेध्याशिनो न तथेत्यर्थः । स्वयमसमर्थः पराधीनसिद्धिरित्युपचार इति भावः । दृष्टान्तालंकारः सुगमः ॥
यदुक्तं 'पूर्वमङ्ग जुहुधि त्वमेवेति तत्राह -
तत्सुराज्ञि भवति स्थिते पुनः कः क्रतुं यजतु राजलक्षणम् । उद्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता ॥ १४ ॥
तदिति ॥ तत्तस्मादुक्तरीत्या । तवैवाधिकारित्वादित्यर्थः । सुराज्ञि विजयप्रजारक्षणा दिगुणयोगाच्छुद्धक्षत्रिये । 'न पूजनात्' इति समासान्तप्रतिषेधः । भवति त्वयि पुरः स्थिते सति । कः । त्वदन्यः क इत्यर्थः । राज्ञः क्षत्रियस्य लक्षणं चिह्नमसाधारणं यस्य तं क्रतुम् । राजसूयमित्यर्थः । यजतु । न कोऽपीत्यर्थः । 'राजा राजसूयेन यजेत' इति राजाधिकारताश्रवणाद्राजा त्वमेवेति भावः । संभावनायां लोट् । अत्र दृष्टान्तमाह-भुव उद्धृतौ भुव उद्धरणे श्रीवराहमादिवराहमपहाय कस्य पुनर्योग्यता सामर्थ्यं भवति । न कस्यापीत्यर्थः । योगाय प्रभवतीति योग्यः । 'योगाद्यच्च' इति यत्प्रत्ययः । अत्र राजवराहयोर्वाक्यभेदेन प्रतिबिम्बकरणाद्दृष्टान्तालंकारः ॥
यच्चोक्तं संभृतोपकरणेनेत्यादिना तत्राह -
शासनेऽपि गुरुणि व्यवस्थितं कृत्यवस्तुषु नियुङ्ख कामतः । त्वत्प्रयोजनधनं धनंजयादन्य एष इति मां च मावगाः ।। १५ ।।
शासन इति ॥ गुरुण्यतिदुष्करेऽपि शासने नियोगे व्यवस्थितम्। त्वदाज्ञाकरमित्यर्थः । मां कृत्यवस्तुषु कर्तव्यार्थेषु कामतो यथेच्छं नियुङ्क्ष्व प्रेषय | अनुचितमेतन्नियन्तरीति संकोचं वारयन्नाह - त्वदिति । त्वत्प्रयोजनमेव धनं यस्य तम् । त्वदर्थैकनिष्टमित्यर्थः । मां धनानि जयतीति धनंजयोऽर्जुनः । ' संज्ञायां भृतृवृजिधारिसहितपिदमः' इति खशप्रत्यये मुमागमः । तस्मादेषोऽन्यः कृष्ण