________________
चतुर्दशः सर्गः।
इति मां मावगाः मावेहि च । नियोगसमुच्चयार्थश्चकारः । अवपूर्वादिणो 'माडि लुङ्', 'इणो गा लुडि' इति गादेशः 'न माङयोगे' इत्यदप्रतिषेधः । उभयो. स्तत्कार्यनिबन्धनान्नारायणात्मत्वाच नावयो दप्रतिपत्तिः कार्यत्यर्थः । तथा च तद्वदेव नियोगेऽप्यसंकोच उचित इति भावः । अत एवानयोर्वाक्यार्थयोर्हेतुहेतुमद्भावाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । स च कृष्णयोर्भेदाभेदरूपातिशयोक्तिमूल इत्यनयोरङ्गाङ्गिभावेन संकरः ॥ यच्चोक्तं वीतविघ्नमित्यादि तत्राभयदानं प्रतिजानीतेयस्तवेह सबने न भूपतिः कर्म कर्मकरवत्करिष्यति । तस्य नेप्यति वपुः कवन्धतां वन्धुरेप जगतां सुदर्शनः॥१६॥ य इति ॥ यो भूपतिः तवेहास्मिन्सवने यज्ञे । 'सवनं यजने स्नाने सोमे निर्दलनेऽपि च' इति विश्वः । कर्मकरवद्भत्यवत्कर्म न करिष्यति तस्य भूपतेर्वपुः जगतां बन्धुः । क्षेमंकरत्वादिति भावः । एष सुदर्शनो मच्चक्रम् । 'शङ्को लक्ष्मीपतेः पाञ्चजन्यश्वकं सुदर्शनः' इत्यमरः । कबन्धतां शिरःशून्यतां नेष्यति पापयिष्यति । छेत्स्यामि चक्रेणास्य शिर इत्यर्थः । 'कबन्धं सलिले प्रोक्तमपमूर्धकलेवरे' इति विश्वः । अतो विघ्नशङ्का न कार्यति भावः । अत्र सुदर्शने बन्धुत्वरूपणाद्रूपकालंकारः ॥
इत्युदीरितगिरं नृपस्त्वयि श्रेयसि स्थितवति स्थिरा मम । सर्वसंपदिति शौरिमुक्तवानुद्वहन्मुदमुदस्थित ऋतौ ॥ १७॥ इतीति ॥ इतीत्थमुदीरितगिरमुपन्यस्तवाचं शौरि नृपो युधिष्ठिरः त्वयि श्रेयस्यभ्युदये विषये स्थितवति । त्वयि क्षेमंकरे सतीत्यर्थः । मम सर्वसंपत् स्थिरेत्युक्तवान् । मुदमुद्वहन्सहायसंपत्त्या संतुष्यन्सन् । तावुदस्थित । क्रतुं कर्तुमुधुक्तवानित्यर्थः । तिष्ठतेलुडि 'उदोऽनूर्ध्वकर्मणि' इत्यादिनात्मनेपदं स्थाध्योरिच' इति सिचः कित्वादिकारः । 'हूस्वादङ्गात्' इति सकारलोपः ॥ अथ पञ्चविंशतिश्लोकैरनेकधा क्रतुं वर्णयतिआननेन शशिनः कलां दधदर्शनक्षयितकामविग्रहः । आप्लतः स विमलैजलैरभूदष्टमूर्तिधरमूर्तिरष्टमी ॥ १८ ॥ आननेनेत्यादि ॥ आननेन शशिनः कलामिव कलां कान्ति दधत् । निद. शनालंकारः । शशिमुख इत्यर्थः । अन्यत्र शशिखण्डधरेत्यर्थः। दर्शनेन क्षयिती नाशितौ कामविग्रही कामक्रोधौ येन सः, अन्यत्र दृष्टिदग्धस्मरशरीरः । विमलैर्ज. लैराप्लुतः स्नातः । नद्यां स्नातीति दीक्षायां स्नानविधानादिति भावः । अन्यत्र गङ्गोदकसिक्ता । गङ्गाधरीत्यर्थः । स नृपः अष्टानां पूरणी अष्टमी । 'तस्य पूरणे दृटू' इति डट् प्रत्ययः । 'नान्तादसंख्यादेमंद' इति मडागमः 'टिड्डाणञ्-' इत्या.
शिशु० २९
..
..