________________
२८७
एकादशः सर्गः। सितकरवपुषासौ लक्ष्यते संप्रति द्यौ
विगलितकिरणेन व्यङ्गितैकेक्षणेव ॥ ६३ ॥ प्रविकसतीति ॥ द्योतितः प्रकाशितोऽशेषलोको येन तस्मिन् , दश शतानि येषां ते दशशतास्ते करा यस्याः सा दशशतकरा सहस्रकरा मूर्तिर्यस्य तस्मिन्दशशतकरमूर्ती सूर्ये द्वितीयेऽक्षिणि चक्षुपीव चिराय प्रविकसति सति संप्रत्यसौ द्यौराकाशं स्त्री च गम्यते । विगलितकिरणेन निष्प्रकाशेन सितकरं शुभ्रकिरणं वपुर्यस्य तेन सितकरवपुषा चन्द्रेण व्यङ्गितं विकलीकृतमेकेक्षणमेकनेत्रं यस्याः सा व्यङ्गितैकेक्षणा काणेव लक्ष्यते । अत्र दिवः काणत्वमुत्प्रेक्ष्यते । तच्च काणत्वमक्षित्वेना यवसितेन निष्काशितेन चन्द्रेणेति । तत्र येनाङ्गविकारः' इति तृतीया ॥
कुमुदवनमपश्रि श्रीमदम्भोजपण्डं __ त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुरस्तं
___ हतविधिलसितानां ही विचित्रो विपाकः ॥ ६४ ॥ कुमुदेति ॥ कुमुदवनं अपगता श्रीर्यस्य तदपश्रि विगतशोभम् । ‘गोस्त्रियो. रूपसर्जनस्य' इति इस्त्रत्वम् । अम्भोजपण्डं श्रीमच्छोभायुक्तम् । उलूकः पेचको सुदं त्यजति । तस्य दिवाभीतत्यादिति भावः । चक्रवाकः प्रीतिमान् । रजनीविरहाभावत्वात्तस्येति भावः । अहिमरश्मिरुष्णांशुरुदयं याति । हिमांशुरिन्दुरम्तमदर्शनं याति । अस्तमित्यव्ययम् । कथमेतद्वैषम्यं तत्राह-हतेति । हतविधिलसितानां दुष्टदेवचेष्टितानां विपाकः परिपाकः तत्तत्प्राणिकर्मानुरूपफ लदानप्रकार इति यावत् । विचित्रो विविधः । न त्वेकविध इत्यर्थः। हीति विस्मये । 'अहो ही च विस्मये' इत्यमरः । विधिविपाकवैचित्र्याजगद्वैचियं युज्यत इति कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः ॥
क्षणमतुहिनधाम्नि प्रोष्य भूयः पुरस्ता
दुपगतवति पाणिग्राहवदिग्वधूनाम् । द्रुततरमुपयाति समानांशुकोऽसा
चुपपतिरिव नीचैः पश्चिमान्तेन चन्द्रः।। ६५ ॥ क्षणमिति ॥ अतुहिनधान्युप्णांशौ दिशो वध्व इवेत्युपमितसमासः । तासां दिग्वधूनां पाणिं गृह्णातीति पाणिग्राहो निजभर्ता तस्मिन्निव पाणिग्राहवत् । तत्र तस्येव' इति तत्राथै वतिः । क्षणं प्रोप्य प्रवासं कृत्वा । प्रपूर्वाद्वसधातोः क्त्वा । तस्य 'समासेऽनपूर्वे क्त्वो ल्यपू' । 'वचिस्वपि-' इत्यादिना संप्रसारणम् । भूयः पुनरपि पुरस्तात्पूर्वस्यां दिशि मार्ग चोपगतवत्यागतवति सति असौ चन्द्र उपपतिर्जार इव । 'जारस्तूपपतिः समौ' इत्यमरः । स्रंसमानांशुको गलद्रश्मिकः । शैषिकः कप्प्रत्ययः । स्रस्तवस्त्रश्च नीचैनम्नः सन्पश्चिमान्तेन पश्चिमदिक्कोणेन