________________
शिशुपालवधे
तथा यत्नेन दुर्वारवेगत्वादतिप्रयत्नेन निरुद्धा वाहा वाजिनो यैस्तैः । 'वाजिवाहार्वगन्धर्व' इत्यमरः । तुरंगिभिरश्वसादिभिरग्रे पुरोदेशेऽवेक्षितानालोकितान् रेणुभिः प्रक्रीडन्तीति प्रक्रीडितान्पांसुक्रीडाकरान् । कर्तरि क्तः । पृथुकाशिशून् । 'पृथुकः शावकः शिशुः' इत्यमरः । जनन्यस्तूर्णमेत्य पथिभ्यो निन्युः अपसारयांचकुरिति स्वभावोक्तिः ।। दिदृक्षमाणाः प्रतिरथ्यमीयुर्मुरारिमारादन, जनौघाः ।
अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रीतिरहो करोति ॥३१॥ दिदृक्षमाणा इति ॥ अनघमकलकं मुरारि दिदृक्षमाणा द्रष्टुमिच्छन्तः । दृशेः सन्नन्ताल्लटः शानजादेशः। 'ज्ञाश्रुस्मृदृशां सनः' इत्यात्मनेपदम् । 'आराहरसमीपयोः' इत्यमरः । ईयुर्जग्मुः । इणो लिद 'दीर्घ इणः किति' इत्यभ्यासदीर्घः । ननु नित्यपरिचिते का दिदृक्षेत्यत्राह–अनेकश इति । अनेकशो बहुवारमित्यर्थः । 'बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्' इति शस्प्रत्ययः । संस्तुतं परिचितमपि वस्तु । जनेनेति शेषः । 'संस्तवः स्यात्परिचयः' इत्यमरः । अनल्पाधिका प्रीतिः प्रेम की नवं नवम् । आभीक्ष्ण्येन नवं करोति । 'नित्यवी. प्सयोः' इति द्विर्भावः । अहोशब्दः पुराणस्यापि नूतनत्वमित्याश्चर्ये । यथा परप्रेमास्पद वस्तु नित्यदृष्टमप्यदृष्टचरमिव प्रतिक्षणं दिदृक्षते भगवानपि तथैवेति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥
उपेयुषो वर्त्म निरन्तराभिरसौ निरुच्छासमनीकिनीभिः । रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान्विदामास शनैन यातम् ॥३२॥
उपयुष इति ॥ विद्वानभिज्ञः अत एव तस्यां पुरि नगर्या दत्तचक्षुर्निसृष्टष्टिरसौ हरिनिरन्तराभिर्नीरन्ध्राभिरनीकिनीभिः सेनाभिर्निरुच्छासमतिसङ्कट वोंपेयुषः प्राप्तस्य रथस्य शनैर्यातं संबन्धनिबन्धनं मन्दगमनं न विदामास न विवेद । 'उपविदजागृभ्योऽन्यतरस्याम्' इत्याम्प्रत्ययः । व्यासङ्गादसंवेदनं न तु तत्त्वाज्ञानादिति भावः । व्यासङ्गम्य पदार्थत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ अथैकत्रिंशच्छोकैभरका वर्णयतिमध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काञ्चनवप्रभासा । तुरंगकान्तामुखहव्यवाहज्वालेव भित्त्वा जलमुल्ललास ॥३३ ।। मध्य इति ॥ समुद्रस्य मध्ये मध्येसमुद्रम् । 'पारे मध्ये षष्ट्या वा' इति विकल्पादव्ययीभावः । मध्यशब्दस्य तत्संनियोगादेकारान्तत्वम् । काञ्चनवप्रभासा हेमप्राकारप्रभया ककुभो दिशः पिशङ्गीः पिङ्गलवर्णाः । गौरादित्वान्ङीष् । कुर्वती या पू: जलं समुद्रोदकं भित्त्वा । उत्थितेति शेषः । तुरंगकान्ताया वडवाया मुखे हव्यं वहतीति हव्यवाहोऽग्निः । कर्मण्यण्प्रत्ययः । तस्य वाडवाग्नेर्वालेवोललास उद्घभासे । अत्र समुद्रान्तीनायां वडवानलज्वालायां कदाचित्संभाव्यमानस्य मध्योल्लसनस्य पुरि दर्शनाभेदाध्यवसायेनास्या ज्वालात्वमुत्प्रेक्षते। इवशब्दो