________________
तृतीयः सर्गः।
७३ श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्चनभूपरागाः । आनेमि मनः शितिकण्ठपिच्छक्षोदद्युतश्चक्षुदिरे रथौधैः ॥२७॥ श्यामेति ॥ श्यामानि चारुणानि च तैः श्यामारुणैः कृष्णलोहितैः । 'वर्णों वणेन' इति समासः । वारणदानतोयैर्गजमदोदकैरालोडिताः संमिलिता अत एव शितिकण्ठपिच्छशोदा मयूरबर्हचूर्णा इव द्योतन्त इति तथोक्ताः । विप् । उपमालंकारः । काञ्चनस्य भूः काञ्चनभूस्तस्याः परागाः पांसवः। आनेमि नेमिमभिव्याप्य । 'चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री' इत्यमरः । 'आङ् मर्यादाभिविध्योः' इत्यभिविधावव्ययीभावः । भग्नै रथौघैः चुक्षुदिरे । पिष्टा इत्यर्थः । परागाणां विशिष्टपेषणासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः। तथा च महती गजरथसंपत्तिय॑ज्यत इत्यलंकारेण वस्तुध्वनिः ॥ न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम । अचेष्टताष्टापदभूमिरेणुः पदाहतो यत्सदृशं गरिम्णः ॥२८॥ नेति ॥ अष्टसु धातुषु पदं प्रतिष्ठा अस्येत्यष्टापदं सुवर्णम् । 'रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्' इति सुवर्णपर्यायेष्वमरः । तस्य भूमिस्तस्या रेणुः काञ्चनभूरजः पदाहतः । रथाश्वादिचरणताडितोऽपि सन्नित्यर्थः । महाजनानां बहुजनानां पूज्यानां च शिरांसि न लङ्घयामास नाकामति स्म । किं बहुना । उद्धनिमुत्पवनं दर्प च नैवाजगाम । कुतः-यद्यस्माद्गरिम्णो गुरुत्वगुणस्य माहात्म्यस्य च । 'प्रियस्थिर-' इत्यादिना गुरोर्गरादेशः । सदृशमनुरूपं यथा तथाचेष्टत । अलङ्घनव्यवहारे गुरुत्वस्यौद्धत्यप्रतिबन्धकत्वादिति भावः । अत्रानौद्धत्यादिप्रस्तुतसुवर्णपरागविशेषणसाम्यादप्रस्तुतसुजनप्रतीतेः समासोक्तिरलंकारः ॥ निरुध्यमाना यदुभिः कथंचिन्मुहुर्यदुचिक्षिपुरग्रपादान् ।
ध्रुवं गुरुन्मार्गरुधः करीन्द्रानुल्लङ्घय गन्तुं तुरगास्तदीषुः॥२९॥ निरुध्यमाना इति ॥ तुरगा यदुभिः । आरूडैरिति भावः । कथंचिदतिप्रयत्नेन निरुध्यमाना लगाकर्षणेन वार्यमाणा अपि यद्यस्मादग्राश्च ते पादाश्च तानग्रपादान् । 'हम्ताग्राग्रहस्तादयो गुणगुणिनोरभेदभेदयोगात्' इति वामनः । सामानाधिकरण्येन समासः । मुहुरुच्चिक्षिपुरुक्षिप्तवन्तः तत्तस्मान्मार्ग रुन्धन्तीति मार्गरुधो मन्दगमनेन मार्गरोधिनः । क्विम् । गुरून्महतः पूज्यांश्च । अल
यानपीति भावः । करीन्द्रानुल्लङ्घय गन्तुमीपुरिच्छन्ति स्म । ध्रुवमित्युत्प्रेक्षायाम् । गुरवोऽपि सन्मार्गरोधकाः परैरुल्लङ्घयन्त इत्यलंकारेण वस्तुध्वनिः ।।
अवेक्षितानायतवल्गमग्रे तुरंगिभिर्यत्ननिरुद्धवाहैः । प्रक्रीडितात्रेणुभिरेत्य तूर्ण निन्युर्जनन्यः पृथुकान्पथिभ्यः॥३० अवेक्षितानिति ॥ आयता आकृष्टा वल्गा मुखरज्जुर्यस्मिन्कर्मणि तद्यथा १ 'खुराहतो' इति पाठः.
शिशु० ७