________________
७२
शिशुपालवधे
ध्वजाग्रधामा ददृशेऽथ शौरेः संक्रान्तमूर्तिर्मणिमेदिनीषु । फणावतस्त्रासयितुं रसायास्तलं विविक्षन्निव पन्नगारिः ॥२३॥ ध्वजेति ॥ अथ रथारोहणानन्तरं शोरेः कृष्णस्य ध्वजाग्रं धाम स्थानं यस्य सः मणिमेदिनीषु मणिमयकुट्टि मेषु संक्रान्तमूर्तिः प्रतिबिम्बिताङ्गः सन् पन्नगारि. र्गरुत्मान्फणावतः सपास्त्रासयितुं द्रावयितुं रसायास्तलं पातालं विविक्षन् । प्रवेष्टुमिच्छन्नित्युत्प्रेक्षा । विशतेः सन्नन्ताल्लटः शत्रादेशः । ददृशे दृष्टः । सोऽपि संनिहितोऽभूदित्यर्थः ॥ यियासतस्तस्य महीध्ररन्ध्रभिदापटीयान्पटहप्रणादः । जलान्तराणीव महार्णवौघःशब्दान्तराण्यन्तरयांचकार॥२४॥ यियासत इति ॥ यातुमिच्छतो यियासतः। यातेः सन्नन्ताल्लटः शत्रादेशः। तस्य हरेः संबन्धी महीं धरन्तीति महीध्राः पर्वताः । मूलविभुजादित्वात्कप्रत्ययः । यदाह वामनः-'महीध्रादयो मूलविभुजादिदर्शनात्' इति । तेषां रन्ध्राणि बिलानि तेषां भिदा भेदनम् । 'षिद्भिदादिभ्योऽङ्' । तस्यां पटीयान्समर्थतरः पटहप्रणाद आनकघोषः महार्णवस्यौघः समुद्रस्य प्रवाहः । अन्यानि जलानि जलान्तराणीव । सुप्सुपेति समासः । अन्याशब्दान् शब्दान्तराणि । पूर्ववत्समासः । अन्तरयांचकारान्तर्हितानि चकार । छादयामासेत्यर्थः । अन्तरशब्दादन्तर्धानार्थात् 'तत्करोति-' इति ण्यन्ताल्लिट् । 'अन्तरमवकाशावधिपरि. धानान्तर्धिभेदतादर्थ्य' इत्युभयत्राप्यमरः ॥
यतः स भर्ता जगतांजगाम धर्ना धरित्र्याः फणिना ततोऽधः। महाभराभुग्नशिरःसहस्रसाहायकव्यग्रभुज प्रसस्रे ॥ २५ ॥
यत इति ॥ जगतां भर्ता धारयिता । कुक्षिस्थाखिललोक इत्यर्थः । 'कर्तृकमणोः कृति' इति कर्मणि षष्ठी । स हरिय॑तो येन भूमार्गेण जगाम ततस्तस्मिन्भूभागे अधः पाताले धरित्र्या धरण्याः धर्ना धारयित्रा । पूर्ववत्षष्ठी । फणिना शेषेण महता भरेण आसमन्ताद्भुग्नस्य कुब्जीभूतस्य शिरःसहस्रस्य साहायके सहायकर्मणि । 'योपधाद्गुरूपोत्तमागुञ्' व्यग्रास्त्वरमाणा भुजा यस्मिंस्तद्यथा तथा प्रसस्त्रे प्रसृतम् । भावे लिट् । हरिश्वचालेत्यर्थः । अत्र शेषस्य विशिष्टप्रसरणासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥
अथोचकैस्तोरणसङ्गभङ्गभयावनम्रीकृतकेतनानि । क्रियाफलानीव सुनीतिभा सैन्यानि सोमान्वयमन्वयुस्तम् २६
अथेति ॥ अथ हरिचलनानन्तरमुच्चकैरुन्नततोरणे द्वारदारुणि सङ्गेन भङ्गस्तस्माद्धयेनावनम्रीकृतानि केतनानि येस्तानि सैन्यानि । सोमस्यान्वयः संतानः तं सोमान्वयं हार सुनीतिभाजं सुष्टु नीतिमन्तं क्रियाः सामाधुपायप्रयोगास्तासां फलानि हिरण्यभूमित्रादिलाभा इवान्वयुरन्वगच्छन् । यातेर्लङ् 'लङः शाकटायनस्य-' इति झेर्जुस् ॥