________________
तृतीयः सर्गः।
नन्दको, नन्दयिता चेत्यर्थः । स नन्दको नन्दकाख्यः खड्गोऽभूत् । संनिहितो. ऽभूदित्यर्थः। संबन्धानुवादेन संनिधानमेवात्र विधेयं प्रकरणात् । अत्रानन्य. साधारणत्वपरोद्वेजकत्वपदार्थाभ्यां विशेषणगत्या नन्दकस्य तदीयतासमर्थनास्पदार्थहेतुकं काव्यलिङ्गमलंकारः ॥
न नीतमन्येन नतिं कदाचित्कर्णान्तिकप्राप्तगुणं क्रियासु । विधेयमस्या भवदन्तिकस्थं शाङ्ग धनुर्मित्रमिव द्रढीयः ॥२०॥ न नीतमिति ॥ अन्येन पुरुषान्तरेण नतिमाकर्षणं भेदेन स्वानुकूल्यं च न नीतं न प्रापितम् , क्रियासु रणकर्मसु, हिताहितकृत्येषु च कर्णान्तिकं कर्णगोचरं प्राप्तो गुणो मौर्वी, आप्तताधर्मश्च यस्य तद्विधेयं क्रियासु वश्यं द्रढीयः दृढतरम् । पीडासहतरमिति यावत् । शृङ्गस्य विकारः शाङ्ग नाम धनुः मित्रमिवास्य हरेरन्तिकस्थं संनिहितमभवत् ॥
प्रवृद्धमन्द्राम्बुदधीरनादः कृष्णार्णवाभ्यर्णचरैकहंसः । मन्दानिलापूरकृतं दधानो निध्वानमश्रूयत पाञ्चजन्यः॥२१॥ प्रवृद्धति ॥ धियं रातीति धीरो मनोहरः मन्द्रो गम्भीरोऽम्बुदस्य मेघस्येव धीरश्च नादः प्रवृद्धो येन सः प्रवृद्धमन्द्राम्बुदधीरनाद इत्युपमा । कृष्ण एवार्णवः समुद्रस्तस्याभ्यर्णचरोऽन्तिकचरः । 'उपकण्ठान्तिकाभ्यां' इत्यमरः। स चासावे. कहंसश्चेति श्लिष्टपरम्परितरूपकम् । मन्दानिलस्य पूर आपूरणं तेन कृतं जनितं निध्वानं दधानः । अनाध्मातोऽपि मन्दमारुतप्रवेशादेव ध्वनतीति पाटवादतिशयोक्तिः । ध्वन्यसंबन्धेऽपि संबन्धकथनात् । पञ्चजनो नाम कश्चिदसुरतत्र भवः पाञ्चजन्योऽस्य शङ्खः । 'बहिर्देवपञ्चजनेभ्यश्च वक्तव्यम्' इति न्यप्रत्ययः । अश्रूयत श्रूयते स । पाञ्चजन्योऽपि संनिहितोऽभूदित्यर्थः । वीणा श्रूयते, पुष्पाण्याघ्रायन्ते इत्यादिवद्धर्मधर्मिणोरभेदोपचारात्पाञ्चजन्यस्य श्रवणोक्तिः ॥
रराज संपादकमिष्टसिद्धेः सर्वासु विश्वप्रतिषिद्धमार्गम् । महारथः पुष्यरथं रथाङ्गी क्षिप्रं क्षपानाथ इवाधिरूढः ॥२२॥ रराजेति ॥ महारथो यस्य स महारथो रथिकविशेषः । 'आत्मानं सारथिं चाश्वानरक्षन्युयेत यो नरः। स महारथसंज्ञः स्यादित्याहुर्नीतिकोविदाः॥' इति । रथाङ्गं चक्रमस्यास्तीति रथाङ्गी हरिः इष्टसिद्धेः संपादकं लक्षणवत्त्वात् । 'पुष्यः सर्वार्थसाधकः' इति शास्त्रादिति भावः । सर्वासु दिक्ष्वप्रतिषिद्धमार्गम् । अनिपिद्धगमनमित्यर्थः । अधिष्ठानशक्तेर्निरङ्कुशत्वात् । 'पुष्यो हस्तो मैत्रमप्याश्विनं च चत्वार्याहुः सर्वदिग्द्वारकाणि' इति शास्त्रादिति भावः । क्षिप्रं क्षिप्रगामिनं, अन्यत्र क्षिप्रनामकम् । 'क्षिप्रं चाश्विदिनेशपुष्यम्' इति शास्त्रात् । पुष्यरथं क्रीडारथम् । 'असौ पुष्यरथश्चक्रयानं न समराय यत्' इत्यमरः । अधिरूढः सन् पुष्यो रथ इव तं पुष्यरथमधिरूढः पुष्यनक्षत्रगतः क्षपानाथश्चन्द्र इव रराज ॥