________________
८८
शिशुपालवधे
प्रयोजनमेषां तान्सांयात्रिकान्पोतवणिजः। 'सांयात्रिकः पोतवणिक्' इत्यमरः । 'प्रयोजनम्' इति ठक् । असौ हरिरभ्यनन्दत् ॥
उत्पित्सवोऽन्तनदभर्तुरुच्चैर्गरीयसा निःश्वसितानिलेन । पयांसि भक्त्या गरुडध्वजस्य ध्वजानिवोच्चिक्षिपिरे फणीन्द्राः७७ उत्पित्सव इति ॥ नदभर्तुः समुद्रस्यान्तरभ्यन्तरादुत्पित्सव उत्पतितुमिच्छवः। पततेः सन्नन्तादुप्रत्ययः । 'सनि मीमा-' इत्यादिना इसादेशः । 'अत्र लोपोऽभ्यासस्य' इत्यभ्यासलोपः । फणीन्द्राः सर्पा भक्त्या गरुडध्वजस्य हरेर्ध्वजानिव गरीयसातिमहता निःश्वसितानिलेन मुखमारुतेन पयांस्युच्चैरुच्चिशिपिरे उत्क्षिप्तवन्तः । उत्प्रेक्षा । स्वरितेत्त्वादात्मनेपदम् ॥
तमागतं वीक्ष्य युगान्तबन्धुमुत्सङ्गशय्याशयमम्बुराशिः। प्रत्युजगामेव गुरुप्रमोदप्रसारितोत्तुङ्गतरङ्गवाहुः ॥ ७८ ॥ तमिति ॥ अम्बुराशियुगान्तबन्धुम् । आपद्धन्धुमित्यर्थः । उत्सङ्ग एव शय्या तस्यां शेत इति तथोक्तम् । 'अधिकरणे शेतेः' इत्यच्प्रत्ययः । आगतमभ्यागतं तं हरिं वीक्ष्य गुरुणा प्रमोदेन प्रसारिता उत्तुङ्गास्तरङ्गा एव बाहवो यस्य सः सन्प्रत्युजगाम संमेलनार्थमागतवानिवेति क्रियास्वरूपोत्प्रेक्षा ॥
उत्सङ्गिताम्भःकणको नभस्वानुदन्वतः खेदलवान्ममार्ज । तस्यानुवेलं बजतोऽधिवेलमेलालतास्फालनलब्धगन्धः ॥७९॥ उत्सङ्गितेति ॥ उत्सङ्गिानः संसर्गिणः कृता उत्सङ्गिताः । 'तत्करोति-' इति ण्यन्तात्कर्मणि क्तः। उत्सङ्गिता अम्भःकणा येनेति 'शेषाद्विभाषा' इति कप् । एलालतानामास्फालनेन संघर्षणेन लब्धगन्धः एवं शिशिरसुरभिरुदन्वतो नभस्वान्समुद्रस्य वायुरधिवेलं वेलायाम् । विभक्त्यर्थेऽव्ययीभावः । ब्रजतस्तस्य हरेः स्वेदलवाननुवेलं प्रतिक्षणम् । यथार्थेऽव्ययीभावः । ममार्ज जहार । 'वेला कूले च जलधेर्वेला तीरविकारयोः' इति विश्वः । काव्यलिङ्गम् ॥
उत्तालतालीवनसंप्रवृत्तसमीरसीमन्तितकेतकीकाः। आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः॥८॥ उत्तालेति ॥ चमूषु चरन्तीति चमूचराः सैनिकाः । 'चरेष्टः' इति टप्रत्ययः । तैरुत्तालेषून्नतेषु तालीवनेषु संप्रवृत्तेन समीरणेन मारुतेन सीमन्तिताः सीमन्तिन्यः कृताः । सीमन्तशब्दान्मत्वन्तात् 'तत्करोति-' इति ण्यन्ताकर्मणि क्तः । णाविष्ठवद्भावे विन्मतो क् । ताः केतक्यो येषु ते तथोक्ताः । 'नतश्च' इति कप् । लवणसिन्धोरिमा लावणसैन्धव्यः । 'तस्येदम्' इत्यण् । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य-' इत्युभयपदवृद्धिः । तासां कच्छभुवामनूपभूमीनाम् । 'जलप्रायमनूपं स्यात्पुंसि कच्छस्तथाविधः' इत्यमरः । प्रदेशा देशा आसेदिरे प्राप्ताः । सीदतेः कर्मणि लिट् । अत्र स्वभावोक्तिरनुप्रासश्वालंकारौ । ओजःश्लेषसौशब्दसौकुमार्याघनेकगुणसंपत्तिः स्पष्टा ॥