________________
एकादशः सर्गः।
२८३ मधुन आपूर्णमिव । सामान्यषष्ठ्या योग्यविशेषपर्यवसाननियमात् 'धष्टी शेषे' इति संबन्धसामान्ये षष्टी करणस्यापि कारणत्वादिति । भाति शोभते । अत्रातपाक्रान्ते मधुपूर्णत्वोत्प्रेक्षया आतपे मधुभ्रमाद्रान्तिमान्व्यज्यते ॥
सितरुचि शयनीये नक्तमेकान्तमुक्तं
दिनकरकरसङ्गव्यक्तकौसुम्भकान्ति । निजमिति रतिबन्धोर्जानतीमुत्तरीयं
परिहसति सखी स्त्रीमाददानां दिनादौ ॥ ५२ ॥ सितेति ॥ नक्तं रात्रौ शयनीये तल्पे। एकान्तमुक्तमत्यन्तत्यक्तं सितरुचि शुभ्रवर्णम् । किंतु दिनादौ प्रभाते दिनकरकरसङ्गेनार्काशुव्यतिकरण व्यक्ता कौसुम्भी कुसुम्भस्य रागद्रव्यस्य संबन्धिनी कान्तिर्यस्य तत्तथा भासमानं रतिबन्धोः प्रियस्योत्तरीयं निजमात्मीयमिति जानतीम् । अत एवाददानां स्त्रीनायिकाम् । 'वाम्शसोः' इतीयङभावपक्षे 'अमि पूर्वः' इति पूर्वरूपम् । सखी परिहसति । अत्रा. कौसुम्भे कौसुम्भभ्रमात्सादृश्यनिबन्धनाद्रान्तिमदलंकारः ॥ प्लुतमिव शिशिरांशोरंशुभिर्यन्निशासु
स्फटिकमयमराजद्राजताद्रिस्थलाभम् । अरुणितमकठोरर्वेश्म काश्मीरजाम्भ:
स्नपितमिव तदेतद्भानुभिर्भाति भानोः ॥ ५३॥ प्लुतमिति ॥ राजताद्रिस्थलाभं सुधाधवलितत्वात्कैलासतटसंनिभं यद्वेश्म निशासु शिशिरांशोरिन्दोरंशुभिश्चन्द्रिकाभिः प्लुतं धौतं सत् स्फटिकमयं स्फटिकविकार इवाराजद्वेजे । तदेतद्वेश्म भानोः सूर्यस्याकठोरैः कोमलैर्भानुभिररुणितमरुणीकृतं सत् काश्मीरदेशे जातं काश्मीरज कुङ्कुमं तस्याम्भसा स्त्रपितं सिक्तमिव भाति । उत्प्रेक्षयोः संसृष्टिः ॥ सरसनखपदान्तर्दष्टकैशप्रमोकं
प्रणयिनि विदधाने योषितामुल्लसन्त्यः । विदधति दशनानां सीत्कृताविष्कृताना
मभिनवरविभासः पद्मरागानुकारम् ॥ ५४ ॥ सरसेति ॥ प्रणयिनि योषितां सरसनखपदानामाईनखक्षतानामन्तर्मध्ये दृष्टानां लग्नानां केशानां शिरोरुहाणां प्रमोकं प्रमोचनं विधाने सति सीत्कृतैर्व्ययाविभूतसीत्कारैराविष्कृतानां दशनानामुल्लसन्त्यो वैमल्याद्दन्तेषु प्रतिफलन्त्यः अभिनवरविभासः पद्मरागाणामनुकारमनुकरणं विदधति । उपमालंकारः । रविभासामारुण्यप्रतिपादकाभिनवविशेषणप्रसादलब्ध इति काव्यलिङ्गेन संकरः ॥