________________
सप्तदशः सर्गः
४२९
मभ्यस्तं दाहधा
दहनसाहसं यस्यास्तया तृतीयया हशा सशरममुं मन्मथं ध्रुवं पुनर्वीक्षितुं न व्यसहत न शक्तः । 'परिनिविभ्यः सेवसितसयसिवु सहसुद्रस्तुस्वञ्जाम्' 'सिवादीनां वाङ्व्यवायेऽपि इति विकल्पान्न षत्वम् । अनयोत्प्रेक्षया रुद्रस्यापि भीषणः किमुतान्येषामिति वस्तु व्यज्यते ॥ विचिन्तयन्नुपनतमाहवं रसादुरः स्फुरत्तनुरुहमग्रपाणिना । परामृशत्कठिनकठोरकामिनीकुचस्थलप्रमुषितचन्दनं पृथुः ॥ ११ ॥
1
विचिन्तयन्निति ॥ पृथुर्नाम राजा उपनतं प्राप्तमाहवं युद्धं रसाद्रणरागाद्विचिन्तयन्कदेति ध्यायन् कठिनेन कर्कशेन कठोरेण प्रवृद्धेन कामिन्याः कुचस्थलेन प्रमुषितमपहृतं चन्दनं यस्य तत् । एतेनास्य सुरतसमरयोः समरसत्वं व्यज्यते । अत एव स्फुरत्तनुरुह मुदञ्चत्पुलकमुरः । अग्रश्चासौ पाणिश्चेति समानाधिकरणसमासः । अत एव 'हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदयो' रिति वामनः । तेनाग्रपाणिना पाणितलेन परामृशत्परामृष्टवान् । रणकण्डूलपाणित्वादिति भावः । अत एव यदन्येषां रोषजनकं दूतवाक्यं तदागा मिरणकारणतयास्य हर्षहेतुरिति श्लोकार्थः ॥
विलङ्घितस्थितिमभिवीक्ष्य रूक्षया रिपोगिरा गुरुमपि गान्दिनीसुतम् । जनैस्तदा युगपरिवर्तवायुभि
विवर्तिता गिरिपतयः प्रतीयिरे ॥ १२ ॥
विलङ्घितेति ॥ गुरुं स्वभावतो धीरमपि सन्तं रूक्षया परुषया रिपोर्गिरा दूतवाचा विलङ्घितस्थितिमुल्लङ्घितमर्यादं क्रोधादुन्मर्यादम् । विकुर्वाणमित्यर्थः । गान्दिनीसुतमक्रूरमभिवीक्ष्य जनैस्तथा अक्रूरविक्रियालोकनसमये युगपरिवर्तवायुभिः कल्पान्तवातैर्विवर्तिताः स्थानादुच्चालिता गिरिपतयोऽद्वयः प्रतीयिरे विशश्वसिरे । अक्रूरविक्रियादर्शनाद्विरिचलनमपि युगान्ते संभावितमेवेति जनैर्विश्वस्तमित्यर्थः । ' प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । प्रतिपूर्वादिणः कर्मणि लिट् । अत्र कल्पान्ते गिरिचलनविक्रियाकल्पेयमक्रूरविक्रियेति वाक्यभेदेन सादृश्याक्षेपान्निदर्शनालंकारः । तेनारस्य लोकोत्तरं धैर्य नैसर्गिकमिति वस्तु व्यज्यते ॥
विवर्तयन्मदकलुषीकृते दृशौ कराहतक्षितिकृतभैरवारवः । क्रुधा दधत्तनुमतिलोहिनी मभृत्प्रसेनजिद्गज इव गैरिकारुणः ॥ १३ ॥ विवर्तयन्निति । मदो मद्यविकारो दानं च | 'मदो मद्येभदानयोः' इति विश्वः । तेन कलुषीकृत आकुलीकृते दृशौ विवर्तयन्वर्णयन्करेण पाणिना शुण्डादण्डेन चाहतायां क्षितौ भूमौ कृतो भैरवारवो भयंकरध्वनिर्येन सः । क्रोधात्सध्वानं करेण क्षितिमाघ्नन्नित्यर्थः । क्रुधा क्रोधेन अतिलोहिनीमतिलोहिताम् ।
1