________________
शिशुपालवधे ।
---
याचका यथास्थानमगुः । याचकेषु यथास्थानं गच्छत्सु माघः प्राह - ' व्रजत व्रजत प्राणा अर्थिनि व्यर्थतां गते । पश्चादपि हि गन्तव्यं क्व सार्थः पुनरीदृशः ॥ ततो माघपत्नी स्वामिनि परलोकं प्राप्ते प्राह - 'सेवन्ते स्म गृहं यस्य दासवद्भूभुजः पुरा । हा भार्यासहायोऽयं मृतो वै माघपण्डितः ॥' ततो राजा माघपण्डितं विपन्नं विदित्वा निजनगराद्ब्राह्मणशतावृतो मौनी पद्भ्यामेव तत्रागात् । ततो माघपत्नी राजानं वीक्ष्य प्राह - 'राजन्, यदि पण्डितस्तव देशं प्राप्तस्तर्हि गृहमेव प्राप्तः । ततो देवेन कार्यशेषं सम्यक्संपादनीयम् ।' राजा तं विपन्नं माघपण्डितं नर्मदातीरं प्रापयामास । सा च माघपत्नी तेन सह वह्निप्रवेशं कृतवती । ततो राजा माघस्योत्तर क्रियां पुत्र इव चक्रे । ततो दिवं गते माघे राजा शोकाकुलो विशेषेण कालिदास विरहेण तथा सकलविद्वत्प्रवसनेन च दिने दिने कार्येन प्रतिपञ्चन्द्राकृतिरासीत् ।" अयं प्रबन्धः समुपलभ्यते ।
जैन मेरुतुङ्गाचार्येण १३६१ संवत्सरे प्रणीते प्रबन्धचिन्तामणौ च –“अथ श्रीभोजः श्रीमाघपण्डितविद्वत्तां पुण्यवत्तां च सततमाकर्ण्य तद्दर्शनोत्सुकतया राजा देशैः सततं प्रेष्यमाणैः श्रीमालनगराद्धिमसमये समानीय सबहुमानं भोजनादिभिः सत्कृत्य तदनु राजोचितान्विनोदान्दर्शयन् रात्रावारात्रिकावसरानन्तरं संनिहिते खसंनिभे पल्यङ्के माघपण्डितं नियोज्य तस्मै खशीतरक्षामुपनीय प्रियालापांश्चिरं कुर्वाणः सुखं सुष्वाप । प्रातर्माङ्गल्यतुर्यघोषैर्विनिद्रं नृपं स्वस्थानगमनाय माघपण्डित आपृष्टवान् । विस्मयापन्नहृदयेन राज्ञा दिने भोजनाच्छादनादिसुखं पृष्टः स कदन्नसदन्नवार्ताभिरलं शीतभारेण श्रान्तं विज्ञपयन्खिद्यमानेन राज्ञा कथंकथंचिदनुज्ञातः पुरोपवनं यावद्भूभुजानुगम्यमानो माघपण्डितेन स्वागमनप्रसादेन संभावनीयोऽहमिति विज्ञप्तो नृपानुज्ञातः खं पदं भेजे । तदनु कतिपयदिनैः श्रीभोजस्तद्विभवभोग सामग्रीदिदृक्षया श्रीमालनगरं प्राप्तः । माघपण्डितेन प्रत्युद्गमा दियथोचितभक्त्यावर्जितः ससैन्यस्तन्म• दुरायां ममौ । स्वयं तु माघपण्डितस्य सौधमध्यास्य संचारकभुवं काञ्चनबद्धामवलोक्य स्नानादनु देवतावसथो मणिमरकत कुट्टिमशैवलवहरी युग्जलभ्रान्त्या धौता - म्बरीयं संवृण्वन् सौवस्तिकेन ज्ञापितवृत्तान्तस्तदैव तद्देवताचनन्तरं निवृत्ते मन्त्रावसरे अशनसमयमागतां रसवतीमाखादयन्नाका लिकैर देशजैर्व्यञ्जनैः फलादिभिश्चित्रीयमाणमानसः संस्कृतपयःशालिशालिनीं रसवती माकण्ठमुपभुज्य भोजनान्ते चन्द्रशालामघिरुह्याश्रुतादृष्टापूर्वकाव्यकथा प्रबन्धप्रेक्ष्यादीनि प्रेक्षमाणः शिशिरसमयेऽपि संजाताकस्मिकग्रीष्मभ्रान्त्या संवीतसित स्वच्छवसन स्तालवृन्त करैरनुचरैर्वीज्यमानोऽमन्दचन्दनालेपनेपथ्यः सुखनिद्रया तां क्षणदां क्षणमिवातिवाह्य प्रत्यूषे शङ्खनिःखनाद्विगतनिद्रो हिमसमये ग्रीष्मावतारव्यतिकरो माघपण्डितेन ज्ञापित इति प्रतिसमयं सविस्मयः कति दिनान्यवस्थाय स्वदेशगमनायापृच्छत् । स्वयं करिष्यमाणनव्यभोजखामिप्रसादप्रदत्तपुण्यो मालवमण्डलं प्रति प्रतस्थे । तथा निजजन्मदिने जनकेन नैमित्तिकाज्जातके कार्यमाणे ‘पूर्वमुदितोदितसमृद्धिर्भूत्वा प्रान्ते गलितविभवः किंचिच्चरणयो