________________
प्रथमः सर्गः।
१९
येन । अभ्रंकषविग्रहत्वादिति भावः । 'सटा जटाकेशरयोः' इति 'तनुः काये कृशेऽल्पे च' इति विश्वः । त्वया स दैत्यः । मुग्धौ नवौ । 'मुग्धः सौम्ये नवे मूढे' इति वैजयन्ती । यौ कान्तास्तनौ तयोः सङ्गेनापि भङ्गुरैः कुटिलैनखैरुरोविदारमुरो विदार्य । 'परिक्लिश्यमाने च' इति णमुलप्रत्ययः। प्रतिचस्करे हतः । किरतेः कर्मणि लिट् । 'ऋच्छत्यताम्' इति गुणः । 'हिंसायां प्रतेश्च' इति सुडागमः । वज्रकठिनोऽपि नखैर्विदारित इति वाङ्मनसयोरगोचरमहिम्नस्ते किमसाध्यमिति भावः ॥
अथास्य जन्मान्तरचेष्टितान्याचष्टेविनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशैः समं पुनः । स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः॥४८॥
विनोदमिति ॥ अथ स हिरण्यकशिपुः पुनर्भूयोऽपि त्रिदशैः समं सह । 'साकं साधं समं सह' इत्यमरः । रणेन दर्पादन्तःसाराजन्म यस्यास्तस्याः कण्ड्वाः भुजकण्डूतेर्विनोदमपनोदमिच्छन् । प्राग्भवनखक्षतैस्तदपनोदाभावादित्यर्थः । दिवः स्वर्गस्य क्षतं नष्टं रक्षणं रक्षा येन तत् । क्षतधुरक्षणमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः। अनेन देवसर्वस्वापहारित्वमुक्तम् । भीषयत इति भीषणः। नन्द्यादित्वाल्लयुः । 'भियो हेतुभये षुक्' इति षुक् । निकामं भीषणः। 'सुप्सुपा' इति समासः । रावणो नाम रावण इति प्रसिद्धं रक्षो बभूव । राक्षसयोनौ जात इत्यर्थः। विश्रवसोऽपत्यं पुमान्रावण इति विग्रहः। 'तस्यापत्यम्' इत्यणि कृते 'विश्रवसो विश्रवणरवणौ' इति प्रकृते रवणादेशः । पौराणिकास्तु रावयतीति व्युत्पादयन्ति । तदुक्तमुत्तरकाण्डे-'यस्माल्लोकत्रयं चैतद्भावितं भयमागतम् । तस्मात्त्वं रावणो नाम नाम्ना वीरो भविष्यसि ॥' इति । रौतेय॑न्तात्कर्तरि ल्युट् । रावणरक्षसोनियतलिङ्गत्वाद्विशेष्यभावेऽपि स्वलिङ्गता ॥
अथास्यौद्धत्यमष्टादशश्लोक्याचष्टेप्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरोऽतिरागादशमं चिकर्तिपुः। अतर्कयद्विघ्नमिवेष्टसाहसः प्रसादमिच्छासदृशं पिनाकिनः॥४९॥
प्रभुरिति ॥ यो रावणः भुवनत्रयस्य प्रभुः स्वामी बुभूषुर्भवितुमिच्छुः । भुवः सन्नन्तादुप्रत्ययः । अतिरागादुत्साहात्, नतु फलविलम्बननिर्वेदादिति भावः । दशमं शिरः चिकर्तिषुः कर्तितुं छेत्तुमिच्छुः । 'कृती छेदने' इति धातोः सन्नन्तादुप्रत्ययः । इष्टसाहसः प्रियसाहसः। अतएवेच्छासदृशमिच्छानुरूपं पिनाकिनः प्रसादं वरं विघ्नमिति वातर्कयदुत्प्रेक्षितवानिति परमसाहसिकत्वोक्तिः । इत आरभ्य श्लोकषट्केऽपि यच्छब्दस्य स रावणो नाम रक्षो बभूवेति पूर्वेणान्वयः। रङ्गराजस्तु 'न चक्रमस्याक्रमताधिकंधरम्' इति उपरिष्टादन्वय इत्याह । तदसत् । 'गुणानां च परार्थत्वात्' इति न्यायादारुण्यादिवत्प्रत्येकं प्रधानान्वयिनां मिथः संबन्धायोगादित्यलं शाखाचकमणेन । पुरा किल रावणः काम्ये कर्मणि पशुपतिप्रीणनाय