________________
૮
६) शिशुपालवधे
पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्च कञ्चुकाः । स्वरूपशोभैकर्फलानि नाकिनां गणैर्यमाशङ्क्य तदादि चक्रिरे ॥ ४५ ॥
पुराणीति ॥ किंच | नाकिनां सुराणां गणैः यं हिरण्यकशिपुमाशङ्कय बाधकत्वेनोत्प्रेक्ष्य स काल आदिर्यस्मिंस्तदादि तत्तदाप्रभृति स्वरूपशोभैवैकफलं मुख्यं प्रयोजनं येषां तेषां सुरादीनां तानि तथोक्तानि । प्रागीहगसाध्यशत्रोरभावादिति भावः । ‘नपुंसकमनपुंसकेन -' इत्यादिना नपुंसकशेषः । पुराणि दुर्गाणि प्राकारपरिखादिना अगम्यानि चक्रिरे । 'सुदुरोरधिकरणे' इति गमेर्ड: । आयुधं निशातं निशितं चक्रे इति विभक्तिविपरिणामेनान्वयः । 'शो तनूकरणे' इति धातोः क्तः । 'शाच्छोरन्यतरस्याम्' इतीत्वविकल्पात्पक्षे आत्वम् । बलानि सैन्यानि शूराणि शौर्यवन्ति चक्रिरे संपादितानि । कञ्चुका वारबाणाः । लोहवर्माणीत्यर्थः । 'कञ्जुको वारबाणोऽस्त्री' इत्यमरः । घना दुर्भेदाश्चक्रिरे । इत्थं नित्यसंनद्धा जाग्रति स्मेत्यर्थः ॥ स संचरिष्णुर्भुवनान्तरेषु यां यदृच्छयाशिश्रियदाश्रयः श्रियः । अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसंध्यं त्रिदशैर्दिशे नमः ॥४६॥
स इति ॥ अन्येषु भुवनेषु भुवनान्तरेषु । 'सुप्सुपा' इति समासः । संचरिष्णुः संचरणशीलः । ‘अलंकृज् -' इत्यादिना चरेरिष्णुच् । श्रियो लक्ष्म्या आश्रयः स हिरण्यकशिपुः यच्छया स्वैरवृत्त्या । 'यदृच्छा स्वैरवृत्तिः' इत्यमरः । यां दिशमशिश्रियदगमत् । श्रयतेर्लुङ् 'णिश्रि-' इत्यादिना चङि द्विर्भाव इयङादेशः । मुकुटोपलेषु मौलिरत्त्रेषु स्खलन्तः करा येषां तैः । शिरसि बद्धाञ्जलिभिरित्यर्थः । ‘उपलः प्रस्तरे रत्ने' इति विश्वः । तिस्रो दशा बाल्यकौमारयौवनानि, जन्मसत्तावृ
यो वा येषां तैस्त्रिदशैर्देवैः । यद्वा त्रिदेश परिमाणमेषामिति 'बहुव्रीहौ संख्येये डजबहुगणात्' इति समासान्तः । तिस्रः संध्याः समाहृतास्त्रिसन्ध्यम् । 'तद्धितार्थोत्तरपद -' इत्यादिना समाहारे द्विगुः । 'द्विगुरेकवचनम् ' वा टाबन्त इति पक्षे नपुंसकत्वम् । अत्यन्तसंयोगे द्वितीया । तस्यै दिशे करैर्हस्तैः । ' नमः स्वस्ति- ' इत्यादिना चतुर्थी | नमः नमस्कारोऽकारि कृतम् । कृञः कर्मणि लुङ् । 'चिण भावकर्मणोः' इति चिण् । संध्यावन्दनेऽपि दिङ्गियमं परित्यज्य तदागमनभयातस्यै दिशे नमस्कारः कृत इति भावः ॥
अथ सोऽपि त्वयैवहत इत्याह
सटाच्छटाभिन्नघनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया । स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्करे नखैः ॥ ४७ ॥
सटाच्छटेति ॥ हे नृसिंह, नरः सिंह इवेत्युपमितसमासः । ना चासौ सिंहश्चेति प्रस्तावात् । सिंहस्येमां सैंहीं तनुं कार्यं बिभ्रता । नृसिंहावतार भाजेत्यर्थः । किंभूतां । अतनुं विस्तीर्णाम् । अतएव सटाच्छटाभिः केशरसमूहैः भिन्ना घना मेघा
१ 'गुणानि' इति पाठः. २ 'श्रियाम्' इति पाठः.