________________
२०
शिशुपालवधे नव शिरांस्यग्नौ हुत्वा दशमारम्भे संतुष्टात्तस्मात्रैलोक्याधिपत्यं वने इति पौराणिकी कथानानुसंधेया ॥
अथ कैलासोतक्षेपणवृत्तान्तमाहसमुत्क्षिपन्यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः। वसत्तुषाराद्रिसुताससंभ्रमस्वयंग्रहाश्लेषसुखेन निष्क्रयम् ॥ ५० ॥
समुत्क्षिपन्निति ॥ यो रावणः पृथिवीभृतां पर्वतानां वरं श्रेष्ठं कैलासं समुक्षिपन् । दर्पादिति शेषः । शूलिनो वरप्रदानस्य पूर्वोक्तस्य । सन्त्याः शैलचलनेन बिभ्यत्यास्तुषाराद्रिसुतायाः पार्वत्याः ससंभ्रमो यः स्वयंग्रहः प्रियप्रार्थनां विना कण्ठग्रहणम् । 'सुप्सुपा-' इति समासः । तेन आश्लेषः संमेलनं तेन यत्सुखं तेन । त्रैलोक्याधिपत्यसुखादुत्कृष्टेनेति भावः । निष्क्रयं प्रत्युपकारनिर्गतिं चकार । 'निष्कयो बुद्धियोगे स्यात्सामर्थ्य निर्गतावपि' इति वैजयन्ती । यद्वा निष्कयं चकार क्रयेण व्यवहारेण याजादोषदैन्यं ममार्जेत्यर्थः । अत्र सुखवरदानयोर्विनिमयात्परिवृत्तिरलंकारः ॥ पुरीमवस्कन्द लुनीहि नन्दनं मुपाण रत्नानि हरामराङ्गनाः । विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः ५१
पुरीमिति ॥ यो बली बलवान्रावणो नमुचिद्विषा इन्द्रेण विगृह्य विरुध्य पुरीममरावतीमवस्कन्दावरुरोध । नन्दनमिन्द्रवनम् , 'नन्दनं वनम्' इत्यमरः । लुनीहि चिच्छेद । 'ई हल्यघोः' इतीकारः । रत्नानि श्रेष्टवस्तूनि मणीन्वा । 'रनं श्रेष्ठे मणावपि' इति विश्वः । मुषाण मुमोष । 'मुष स्तेये' । 'हलः नः शानज्झौ' इति श्नः शानजादेशः । अमराङ्गनाः हर जहार । सर्वत्र पौनःपुन्येनेत्यर्थः । इत्थमनेन प्रकारेण अहनि च दिवा चाहर्दिवम् । अहन्यहनीत्यर्थः । 'अचतुरइत्यादिना सप्तम्यर्थवृत्तौ द्वन्द्व समासान्तो निपातः । दिवः स्वर्गस्यास्वास्थ्यमुपद्रवं चक्रे । अत्रावस्कन्देत्यादी 'क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः' इत्यनुवृत्तौ ‘समुच्चयेऽन्यतरस्याम्' इति विकल्पेन कालसामान्ये लोद । सस्य यथोपग्रहं सर्वतिङादेशो हिस्खौ च । प्रकरणादिना त्वर्थविशेषावसानम् । 'अतो हेः' इति यथायोग्यं हिलुक् । पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः । अवस्कन्दनादिक्रियाविशेषाणां समुच्चयः क्रियासमभिहारः । तत्सामान्यस्य करोतेः 'समुच्चये सामान्यवचनस्य' इत्यनुप्रयोगः चक्रे इति । 'अत्र तिबैचिव्यात्सौशब्दाख्यो गुणः । 'सुपां तिङां परावृत्तिः सौशब्दम्' इति लक्षणात् । समुच्चयश्वालंकारः॥ सलीलयातानि न भर्तुरभ्रमोन चित्रमुच्चैःश्रवसः पदक्रमम् । अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥५२॥ .. १ 'वशी' इति पाठः. २ 'महर्निशं' इति पाठः.