________________
शिशुपालवधे
'समूढः पुञ्जिते भुग्ने' इति विश्वः । कर्पूरस्य परागश्चूर्णं तद्वत्पाण्डुरम् । अतएव क्षणं मेघसमीपावस्थानक्षणे । अत्यन्तसंयोगे द्वितीया । क्षणेषु ताण्डवोत्सवेषु । 'निर्व्यापारस्थितौ कालविशेपोत्सवयोः क्षणः' इत्युभयत्राप्यमरः । उत्क्षिप्ता उपरि धारिता गजेन्द्रस्य कृत्तिश्चर्म येन तेन । 'अजिनं चर्म कृत्तिः स्त्री' इत्यमरः । भूत्या भस्सना सितेन । 'भूतिर्भसनि संपदि' इत्यमरः । शंभुना स्फुटा उपमा सादृश्यं यस्य तं स्फुटोपमम् । स्फुटशंभूपममित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । सदृशपर्याययोस्तुलोपमाशब्दयोः 'अतुलोपमाभ्याम्-' इति निषेधात्सादृश्यवा. चित्वे तृतीयेत्याहुः । केचिदिमं श्लोकं चयस्त्विषामित्यतः प्राग्लिखित्वा व्याचक्षते। तेषां पुंस्त्वावधारणात्प्राक्तेजःपिण्डमात्रस्य शंभूपमौचित्यं चिन्त्यम् ॥ दधानमम्भोरुहकेसरद्युतीर्जटाः शरचन्द्रमरीचिरोचिषम् ।। विपाकपिङ्गास्तुहिनस्थलीरुहो धराधरेन्द्रं व्रततीततीरिव ॥५॥
दधानमिति ॥ पुनः। अम्भोरुहकेसरद्युतीः पद्मकिंजल्कप्रभापिशङ्गीरित्यर्थः । जटा दधानम् , स्वयं तु शरच्चन्द्रमरीचिरिव रोचिर्यस्य तम् । धवलमित्यर्थः । अतएव विपाकेन परिणामेन पिङ्गाः पिङ्गलास्तुहिनस्थल्यां तुषारभूमौ रोहन्तीति तुहि. नस्थलीरुहः व्रततीततीलताव्यूहान् 'वल्ली तु व्रततिलता' इत्यमरः । दधानं धराधरेन्द्रो हिमवान् तुहिनस्थलीति लिङ्गान्नारदोपमानत्वाच्च तमिव स्थितम् ॥ पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्जनद्युति । सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ।।६।।
पिशङ्गेति ॥ पुनः कीदृशम् । मुञ्जस्तृणविशेषः तन्मयी मेखला मौञ्जी पिशङ्गया मौल्या युज्यत इति पिशङ्गमौञ्जीयुक् तम् । 'सत्सूद्विष-' इत्यादिना क्विप् । 'स्त्रियाः पुंवत्-' इति पिशङ्गशब्दस्य पुंवद्भावः । अर्जुनच्छविं धवलकान्तिम् । 'वलक्षो धवलोऽर्जुनः' इत्यमरः । अञ्जनात्यञ्जनवर्ण एणाजिनं कृष्णमृग. चर्म वसानमाच्छादयन्तम् । 'वस आच्छादने' इति धातोः शानच् । सुवर्णसूत्रेण कनकमेखलया आकलितं बद्धमधराम्बरमन्तरीयं यस्यास्तां शितिवाससो नीलाम्बरस्य रामस्य तनुं विडम्बयन्तम् । अनुकुर्वाणमित्यर्थः । आर्थीयमुपमा । विहंगराजागरूहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितन्तुभिः । कृतोपवीतं हिमशुभ्रमुच्चकैर्घनं घनान्ते तडितां गणैरिव ॥ ७ ॥
विहंगेति ॥ पुनः। विहंगराजाङ्गरुहैरिव गरुत्मल्लोमतुल्यैरायतैर्दीधैः । हिरण्यस्य विकारो हिरण्मयी । 'दाण्डिनायन-' इत्यादिना मयटि यलोपनिपातः । तस्यामुया॑ रुहा रूढाः । इगुपधलक्षणः कप्रत्ययः । तासां वल्लीनां तन्तुभिस्तत्तुल्यैः सूक्ष्मावयवैः । उपादानगुणात् । हिरण्मयैः कृतोपवीतं शोभार्थं कल्पितयज्ञसूत्रं स्वयं हिमशुभ्रम् । अतएव घनान्ते शरदि तडितां गणैरुपलक्षितम् । 'तडिसौदामनी विद्युत्' इत्यमरः । उच्चैरेवोच्चकैरुन्नतं धनं मेघमिव स्थितम् ॥