________________
३३०
शिशुपालवधे
नवेति ॥ अथ प्रवेशानन्तरं स हरिस्तत्र संसदि सभायां नवभिहाटकेष्टकाभिः हिरण्येष्टकाभिश्चितम् । 'हिरण्यं हेम हाटकम्' इत्यमरः । 'इष्टकेषीकामालानां चिततूलभारिषु' इति हस्वः । पक्कमृत्तिकाविशेषवाचकस्येष्टकाशब्दस्य तादृशि सुवर्णविकारे सुवर्णघटवदुपचारात्प्रयोगः । क्षितिपस्य युधिष्ठिरस्य पस्त्यं सदनम् । 'निशान्तपस्त्यसदनम्' इत्यमरः । ददर्श । यत्सदनं गगनस्पृशामुच्चैस्तराणां मणिरुचां चयेन समूहेन नाकिनां देवानामपि सदनान्युदस्मयताहसत् । स्मयतेरुत्पूर्वाकर्तरि लङ् । अत्रापि नृपसदनस्य सुरसदनादाधिक्यासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥ उदयाद्रिमूर्ध्नि युगपञ्चकासतोर्दिननाथपूर्णशशिनोरसंभवाम् । रुचिमासने रुचिरधानि विभ्रतावलघुन्यथ न्यषदतां नृपाच्युतौ ६४
उदयाद्रीति ॥ अथ नृपसदनदर्शनानन्तरमुदयाद्रेर्मूर्ध्नि शिखरे युगपञ्चकासतोः प्रकाशमानयोः । चकास दीप्तौ' इति धातोर्लटः शत्रादेशः । दिननाथपूर्णशशिनोः सूर्यपूर्णचन्द्रमसोरसंभवां संभवरहिताम् । तयोस्तथाभूतयोर्योगपद्ययोगादभूतपूर्वामित्यर्थः । रुचिं शोभां बिभ्रतौ नृपाच्युतौ रुचिरधाभ्युज्वलतेजसि । अलघुनि विपुले आसने सिंहासने न्यषदतामुपविष्टौ । सदेलुङि 'पुषादि-' इति चलेरङादेशः 'सदिरप्रतेः' इति षत्वम् । अत्र संभावनया अर्कपूर्णेन्दुशोभासंबन्धोक्तेरसंबन्धरूपातिशयोक्तिः ॥ सुतरां सुखेन सकलक्लमच्छिदा सनिदाघमङ्गमिव मातरिश्वना । यदुनन्दनेन तदुदन्वतः पयः शशिनेव राजकुलमाप नन्दथुम् ॥६५॥
सुतरामिति ॥ तद्राजकुलं कुरुकुलम् । सकलक्लमच्छिदा सकलदुःखहारिणा यदुनन्दनेन कृष्णेन सनिदाघं ससंतापमङ्गं मातरिश्वा वायुस्तेन उदका. न्यस्य सन्तीत्युदन्वानुदधिः । 'उदन्वानुदधौ च' इति निपातः । तस्य पयो जलं शशिनेव सुतरामत्यन्तम् । 'किमेत्तिङव्यय-' इत्यामुप्रत्ययः । सुखेनाक्लेशेन नन्दथुमानन्दमाप । 'स्यादानन्दथुरानन्दः' इत्यमरः । 'तितोऽथुच्' इत्यथु. प्रत्ययः । मालोपमा ॥ अनवद्यवाद्यलयगामि कोमलं
नवगीतमप्यनवगीततां दधत् ।। स्फुटसात्त्विकाङ्गिकमनृत्यदुज्वालं
सविलासलासिकविलासिनीजतः ॥ ६६ ॥ अनवद्येति ॥ सविलासो विलासयुक्तो लासिका विलासिनीजनो नर्तकस्त्रीजनः सविलासलासिकविलासिनीजनः । 'नर्तकीलासिके स मे' इत्यमरः । अनवद्यमगा वाद्यं वंशादि तस्य लयः साम्यं गीतस्य समकालत्वं तद्गामि द्रुतविलम्बादिमा. नानुवर्तीत्यर्थः । 'तालः कालक्रियामानं लयः साम्याम्' इत्यमरः । नवं गीतं यस्य