________________
त्रयोदशः सर्गः। तन्नवगीतं तथाप्यनवगीततां दधदिति विरोधेऽपिशब्दः । अगर्हितत्वं दधदित्यविरोधाद्विरोधाभासः । 'अवगीतं तु निर्वादे मुहुर्गीते च गर्हिते' इति विश्वः । सत्त्वमन्तःकरणं तेन निर्वृत्तं नृत्यं सात्त्विकम् । अङ्गं हस्तादि तेन निर्वृत्तमाणिकम् । 'निर्वृत्ते त्वङ्गसत्वाभ्यां द्वे त्रिवाङ्गिकसात्त्विके' इत्यमरः। ते स्फुटे यस्मिस्तत्तथोक्तम् । वाचिकस्याप्युपलक्षणमेतत् । यथाह भगवान्भरतः- पदार्थाभिनयो नाम ज्ञेयो वागङ्गसत्त्वजः' इति । अत एव कालिदासोऽपि 'अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्यमुपधाय दर्शयन्' इति । कोमलं मधुरनृत्यमुज्वलमुद्धतं चानृत्यत् । तथोक्तं दशरूपके-'भावाश्रयं तु नृत्यं स्यान्नत्तं ताललयाश्रयम् । आद्यं पदार्थाभिनयो मार्गादेशी तथापरः ॥ मधुरोद्धतभेदेन तद्वयं द्विविधं पुनः । लास्यदण्डकरूपेण नाटकाद्युपचारकम् ॥' इति ॥ सकले च तत्र गृहमागते हरौ नगरेऽप्यकालमहमादिदेश सः। सततोत्सवं तदिति नूनमुन्मुदो रभसेन विस्मृतमभून्महीभृतः ६७
सकल इति ॥ किंचेति चार्थः । स राजा हरौ कृष्णे गृहमागते सकले तत्र नगरे इन्द्रप्रस्थे । अकाले प्रसिद्धवसन्ताद्यतिरिक्त काले । महमुत्सवम् । 'मह उद्धव उत्सवः' इत्यमरः । आदिदेशाज्ञापयामास । नूनमत्रोत्प्रेक्ष्यते । उन्मुदः कृष्णागमनादुत्कटानन्दस्य महीभृतो धर्मनन्दनस्य तन्नगरं सततमुत्सवा यस्मिस्तत्सततोत्सवमिति एतद्भसेन त्वरया विस्मृतमभूत् । अन्यथा कथं कृतकमणोपदेश इति भावः ॥ हरिराकुमारमखिलाभिधानवित्स्वजनस्य वार्तमयमन्वयुत च । महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु किंचन॥
हरिरिति ॥ किंचेति चार्थः । अखिलान्यभिधानानि नामानि वेत्तीत्यखिलाभिधानवित्सकलनामप्रपञ्चाभिज्ञः। 'नामरूपे व्याकरवाणि' इति श्रुतेरिति भावः। 'आख्याह्वे अभिधानं च नामधेयं च नाम च' इत्यमरः । अयं हरिः कृष्णः कुमारमारभ्येत्याकुमारस् । आङ्मर्यादाभिविध्योः' इत्यभिधानादव्ययीभावः । स्वजनस्य बन्धुजनस्य । 'बन्धुस्वस्वजनाः समाः' इत्यमरः । वार्तमनामयम् । आरोग्यमित्यर्थः । 'वातं फल्गुन्यरोगे च' इत्यमरः । 'ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम्' इति मनुस्मरणात् । अन्वयुतापृच्छत् । 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः । युजेः कर्तरि लङ् । तथा हि । महतीं श्रियं संपदमवाप्यापि विस्मयो निरहंकारः सुजनः अत एव जातु कदाचिदपि किंचन किमपि न विस्मरति । सुजनः संपन्नोऽप्यहंकारं न करोतीति भावः। सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥
मर्त्यलोकदुरवापमवाप्तरसोदयं
नूतनत्वमतिरिक्ततयानुपदं दधत् ।