________________
चतुर्थः सर्गः।
१०७ आच्छाद्य पुष्पपटमेष महान्तमन्त
रावर्तिभिर्गृहकपोतशिरोधराभैः। स्वाङ्गानि धूमरुचिमागुरवीं दधान
धूपायतीव पटलैनवनीरदानाम् ॥ ५२ ॥ आच्छायेति ॥ एषोऽदिर्महान्तं पुष्पाण्येव पट इति रूपकं तमाच्छाद्य अन्तः पटाभ्यन्तर आवर्तिभिरभीक्ष्णं भ्रमद्भिः। 'बहुलमाभीक्ष्ण्ये' इति णिनिः । गृहकपोतशिरोधराभा गृहपारावतकण्ठस्याभेवाभा येषां तैरित्युपमा। 'पारावतः कपोतः स्यात्' इति विश्वः । अगुरोः कालागुरोरिमामागुरवीम् । 'कालागुर्वगुरुः स्यात्' इत्यमरः । धूमरुचिं धूमकान्तिम् । तत्सदृशीमित्यर्थः । अत एव निदर्शना । दधाननवनीरदानां पटलैः स्वाङ्गानि धूपायतीव धूपैरिवाधिवासयतीवेत्युत्प्रेक्षा रूपकोपमानिदर्शनाभिरङ्गैः संकीर्यते । 'धूप संतापे' इति धातोः 'गुपू. धूपविच्छिपणिपनिभ्य आयः' इत्यायप्रत्ययः ॥
अन्योन्यव्यतिकरचारुभिर्विचित्र
स्त्रस्यन्नवमणिजन्मभिर्मयूखैः। विस्मेरान्गगनसदः करोत्यमुष्मि
नाकाशे रचितमभित्ति चित्रकर्म ॥ ५३॥ अन्योन्येति ॥ अमुष्मिन्नद्रावन्योन्येषां व्यतिकरेण मिश्रणेन चारुभिः अत एव विचित्र नावणैरत्रस्यन्तस्त्रासदोषेणादुष्यन्तः । 'त्रासो भीमणिदोषयोः' इति विश्वः । 'वा भ्राश-' इत्यादिना वैकल्पिकः श्यन्प्रत्ययः। तेभ्यो नवमणिभ्यो जन्म येषां तैर्मयूखैराकाशे रचितमभित्ति अकुड्यम् । अनाधारमित्यर्थः । चित्रकर्म कर्तृ । गगनसदः खेचरान्विस्मेरान्विस्मयशीलान्करोति । 'नमिकम्पि-' इत्यादिना रप्रत्ययः । अत्र मणिमयूखेषु खे चित्रकर्मभ्रान्तिमतामेवाभित्तिचित्रकमैत्यकारणे कार्योत्पत्तिवर्णनाभान्तिमदलंकारोत्थापिता विभावनेति संकरः । 'कारणेन विना कार्यस्योत्पत्तिः स्याद्विभावना' इति । प्रहर्षिणी वृत्तम् ॥
समीरशिशिरः शिरःसु वसतां
सतां जवनिका निकामसुखिनाम् । विभर्ति जनयन्नयं मुदमपा
मपायधवला बलाहकततीः ॥५४॥ समीरेति ॥ समीरेण मारुतेन शिशिरः शीतलः शिरःसु शिखरेषु वसतां निकामसुखिनामत्यन्तसुखिनां सतां पुण्यवतां मुदं जनयन्नयमदिरपामम्भसामपायेनापगमेन धवला बलाहकततीर्मेघपतीरेव जवनिकास्तिरस्करिणीर्बिभर्ति । अनावृतेष्वपि शिखरेषु क्रीडने मेधैरेवावरणतां संपाद्य मुदं जनयतीत्यर्थः । अत्र