________________
१२२
शिशुपालवधे
दर्शन हेतुकत्वमुत्प्रेक्ष्य तत्समर्थनासमर्थोऽयमर्थान्तरन्यासः कृत इत्यस्यानयाङ्गेन संकरः । न हि जितैर्जेतुरग्रे स्थातुमुचितमिति भावः ॥
रोचिष्णुकाञ्चनचयांशु पिशङ्गिताशा वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः । भूभर्तुरायतनिरन्तरसंनिविष्टाः
पादा इवाभिवभुरावलयो रथानाम् ।। २० ।।
रोचिष्वति ॥ रोचिष्णवो रोचनशीलाः । ' अलंकृञ् - ' इत्यादिना इष्णुच्प्रत्ययः । तेषां काञ्चनचयानां कनकचयानामंशुभिः पिशङ्गिताः पिशङ्गीकृता आशा याभिस्ताः वंशानां तत्तद्राजकुलानां ध्वजैः प्रतिनियतकुलानामङ्कुशादिचिह्नितकेतुभिः, अन्यत्र वंशा वेणवस्तैरेव ध्वजैर्जलदसंहतिं मेघसंघातमुल्लिखन्त्यः आयतं दीर्घं निरन्तरं नीरन्धं च संनिविष्टाः संस्थिता रथानामावलयो भूभर्तृ रैवतकाद्रेः पादाः प्रत्यन्तपर्वता इवाभिबभुः भान्तिस्म । आशापिशङ्गीकरणादिक्रियानिमित्ता जातिस्वरूपोत्प्रेक्षा ॥
छायाविधायिभिरनुज्झितभूतिशोभैरुच्छ्रायिभिर्बहलपाटलधातुरागैः । दूयैरिव क्षितिभृतां द्विरदैरुदारतारावलीविरचनैर्व्यरुचन्निवासाः ।। २१ ।।
छायेति ॥ क्षितिभृतां राज्ञां निवसन्त्यत्रेति निवासाः निवासदेशाश्छायाविधायिभिः कान्तिकरैरनातपसंपादकैश्च । 'छाया वनातपे कान्तौ' इति विश्वः । अनुज्झिता भूतीनां भस्मरचनानां संपदां च शोभा यैस्तैः । 'भूतिर्भस्मनि संपदि ' इत्यमरः । उच्छ्रायिभिरुन्नमद्भिर्बहलः सान्द्रः पाटल आरक्तधातुरागो गैरिकादि - रञ्जनं येषां तैः । उदारा तारावलीनां शुद्धमुक्तावलीनां विरचना येषु तैः । मुक्तासारभूषितैरित्यर्थः । ' तारा मुक्तादिसंशुद्धौ तरले शुद्धमौक्तिके' इति विश्वः । दृष्यपक्षे तारावली रज्जुसंततिरिति केचित् । द्विरदैर्दृष्यैः पटमण्डपैरिव । 'दूष्यं वस्त्रे च तद्गृहे' इति विश्वः । व्यरुचन्रोचन्ते स्म । 'रुच दीप्तौ' 'यो लुङि' इति परस्मैपदे 'पुषादि -' इत्यादिना च्लेरङादेशः । ' अत्र द्विरदानां दूष्याणां च प्रकृतत्वान्नोपमा, नापि श्लेषभेदः । विशेष्यस्य विशेषणानां च केषांचिदष्टित्वात्। तस्मात्केवलप्रकृतास्पदा तुल्ययोगितेयम् । इवशब्दस्तु सादृश्यमात्रानुवादक इति संक्षेपः ॥
उत्क्षिप्तकाण्डपटकान्तरलीयमानमन्दानिलप्रशमितश्रमघर्मतोयैः ः। दूर्वाप्रतान सहजास्तरणेषु भेजे
निद्रासुखं वसनसद्मसु राजदारैः ॥ २२ ॥