________________
पञ्चमः सर्गः।
१२१
स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाण
वक्रश्रियः सभयकौतुकमीक्षते स ॥ १७ ॥ यानादिति ॥ परिजनैर्यानाद्वाहनादवतार्यमाणा अवरोप्यमाणाः । रुहेर्यन्तात्कर्मणि लटः शानजादेशः । 'रुहः पोऽन्यतरस्याम्' इति पकारः । नराणामालोकिजनानामपनयनेऽपसारणे आकुलाः सौविदल्लाः कञ्जुकिनो यासां ताः। 'सौविदल्लाः कञ्जुकिनः' इत्यमरः । स्रस्ता अवरोपणसंक्षोभादपसृता अवगुण्ठनपटा नीरङ्गीवस्त्राणि यासां ताः । अत एव क्षणं लक्ष्यमाणा वक्रश्रियो यासां तास्तथोक्ता राज्ञी राजस्वीः । 'पुंयोगादाख्यायाम्' इति ङीप् । जनः सभयकौतुकमीक्षते स्म । ताडनाद्भय कामात्कौतुकम् ॥
कण्ठावसक्तमृदुबाहुलतास्तुरङ्गा
द्राजावरोधनवधूरवतारयन्तः । आलिङ्गनान्यधिकृताः स्फुटमापुरेव
गण्डस्थलीः शुचितया न चुचुम्बुरासाम् ॥१८॥ कण्ठेति ॥ तुरङ्गादाजावरोधनवधूः राज्ञामवरोधस्त्रीरवतारयन्तोऽवरोपयन्तोऽधिकृता अन्तःपुराधिकारिणः कण्टेषु स्वकीयेष्ववसक्ता मृदवो बाहुलतास्तदीया येषां ते तथोक्ताः सन्तः स्फुटं व्यक्तमालिङ्गनान्यापुरेव । अन्यथा दुरवरोहत्वाद्ध्याजाच्चेति भावः । आसां वधूनां गण्डस्थलीः शुचितया स्वयं शुद्धवर्तित्वाद्गण्डनैर्मल्याच न चुचुम्बुः । यावत्कर्तव्यकारिणः शुद्धात्मानो नातिचरन्तीति भावः । अन्यत्र तु पापाचाराः पापलिङ्गानि प्रकाशयन्तीति भावः ॥
दृष्ट्वेव निर्जितकलापभरामधस्ता___याकीर्णमाल्यकबरां कबरी तरुण्याः। प्रादुद्रुवत्सपदि चन्द्रकवान्द्रुमाग्रा
त्संघर्पिणा सह गुणाभ्यधिकैर्दुरासम् ॥ १९ ॥ दृष्ट्वेति ॥ अधस्तात्तरुतले निर्जितः कलापभरो बर्ह भारो यया ताम् । 'कलापो भूषणे बहे' इत्यमरः । व्याकीर्णेन विक्षिप्तेन माल्येन कबरां शाराम् । 'कबरः कर्बुरः शारः' इति हलायुधः। तरुण्याः कबरी केशपाशम् । 'कबरी केशपाशोऽथ' इत्यमरः । 'जानपद-' इत्यादिना ङीष् । दृष्ट्ववेत्युत्प्रेक्षा । सपदि चन्द्रका अस्य सन्तीति चन्द्रकवान्मयूरः द्रुमाग्रात्प्रादुद्रुवत्पद्रुतवान् । 'द्रु गतौ' लुङि 'णिनि-' इत्यादिना च्लेश्वङादेशः । 'अचि श्रुधातु-' इत्यादिनोवडादेशः । तथा हि संघर्षिणा मत्सरिणा का गुणाभ्यधिकैर्गुणोत्कृष्टैः सह दुरासम् । आसितुमशक्यमित्यर्थः । आसेरकर्मकात् । 'ईषदुर्' इत्यादिना भावे खल् प्रत्ययः । 'तयोरेव कृत्यक्तखलाः ' इति नियमात् । अत्र भयहेतुकस्य पलायनस्य कबरी
शिशु० ११