________________
पञ्चमः
१२३
उत्क्षिप्तेति ॥ उत्क्षिप्त उद्धृतो यः काण्डपट एव काण्डपटकः दूष्याधोलम्बि वायुसंचारार्थः पटः । 'अपटः काण्डपटी स्यात्' इति वैजयन्ती । तस्यान्तरेऽवकाशे यमानेन मन्दानिलेन प्रशमितं श्रमेणाध्वखेदेन यद्धर्मतोयं स्वेदाम्बु तद्येषां तै राजदारै राजावरोधैः दुर्वाणां प्रतानं प्रचय एव सहजमकृत्रिममास्तरणं तल्पं येषु. तेषु वसनसद्मसु पटमण्डपेषु निद्वासुखं भेजे ॥
सर्गः
: ।
प्रस्वेदवारिस विशेषविषक्तमङ्गे कूर्पासकं क्षतनखक्षतमुत्क्षिपन्ती ।
आविर्भवद्धनपयोधरबाहुमूला शातोदरी युवशां क्षणमुत्सवोऽभूत् ॥ २३ ॥
प्रस्वेदेति ॥ अङ्गे गात्रे प्रस्वेदवारिणा सविशेषं सातिशयं यथा तथा विषतमतिश्लिष्टं कूर्पासकं चोलकम् । कञ्चुकमित्यर्थः । 'चोलः कूर्पासकोऽस्त्रियाम्' इत्यमरः । क्षतानि पुनर्विदीर्णानि नखक्षतानि यस्मिन्कर्मणि तद्यथा तथा उत्क्षि पन्ती उन्मोचयन्ती अत एवाविर्भवत्प्रकाशमानं घनपयोधरबाहुमूला धनौ पयो - धरौ बाहुमूले च यस्याः सा शातोदरी । 'नासिकोदर -' इत्यादिना ङीप् । युवदृशां क्षणमुत्सवोऽभूत् । एतेन यूनां त्वराचिन्तादिकरमिष्टवस्त्ववलोकननिमित्तं कालाक्षमत्वलक्षणमौत्सुक्यं व्यज्यते । नायिकाभिसारिणी प्रगल्भा वा ॥
यावत्स एव समयः सममेव तावदव्याकुलाः पटमयान्यभितो वितत्य ।
पर्यापतत्क्रयिकलोकमगण्यपण्य
पूर्णापणा विपणिनो विपणीविभेजुः ॥ २४ ॥
यावदिति ॥ विपणो व्यवहारः स एषामस्तीति विपणिनो वणिजो यावत्स एव समयः सेनानिवेशलक्षण एव तावत्क्षण एव समं युगपत् अव्याकुला अव्यग्राः सन्तः पटमयानि पटविकाराणि । पटमण्डपानित्यर्थः । अभितो वितत्य उभयतः श्रेण्या वितत्य विस्तीर्य क्रयेण जीवतीति क्रयिकः । 'वस्त्रक्रयविक्रयात् -' इति ठक् । पर्यापतन्परितो धावन् क्रयिकलोकः क्रेतृजनो यस्मिन्कर्मणि तत् अगण्यैरसंख्येयैः पण्यैः पण्यद्रव्यैः पूर्णा आपणाः पण्यप्रसारणस्थानानि यासु ता विपणीःपण्यवीथीः । ' आपणस्तु निषद्यायां विपणिः पण्यवीथिका' इत्यमरः । विभेजुः । असंकीर्णं निर्ममुरित्यर्थः । स्वभावोत्यनुप्रासौ ॥
१ पूर्णापणं विपणिनो विपणिं विभेजुः ' अयमेव पाठो वल्लभव्याख्यातः प्राचीनश्च । अतः एवामरव्याख्यायाम् ' अत एव प्रयोगाद्विपणेः पुंस्त्वमपीति सर्वधरः' इति मुकुट उक्तवान् । वल्लभोऽपि 'बाहुल्येन विपणिशब्दं स्मरन्ति' इत्युक्तवान्.