________________
१२४
शिशुपालवधे अल्पप्रयोजनकृतोरुतरप्रयासै
रुद्र्णलोष्टलगुडैः परितोऽनुविद्धम् । उद्यातमुद्रुतमनोकहजालमध्या
दन्यः शशं गुणमनल्पमवन्नवाप ॥ २५ ॥ अल्पेति ॥ अल्पप्रयोजनेनाल्पफलेन निमित्तेन कृत उरुतरो भूयान्प्रयासो यैस्तैः । अल्पस्यैकस्य शशपिण्डस्य भूयसामकिंचित्करत्वादिति भावः । उद्गुर्णा उद्यताः लोष्टानि मृत्खण्डा लगुडाश्च दण्डकाष्ठानि यैस्तैः पुंभिरिति शेषः । परितोऽनुविद्धमनुरुद्धम् । अनसः शकटस्याकं गतिं नन्तीत्यनोकहा वृक्षास्तेषां जालमध्यादुद्यातमुत्थितम् । उत्पूर्वांद्यातेः कर्तरि क्तः । उद्रुतं पलायितं शशं मृगविशेषम् । अन्यः परः अवन् हन्तृन्निवार्यं रक्षन्ननल्पं गुणं महान्तमुत्कर्षमवाप । दयालोरनामिषलोलुपस्य सुकीर्तिः सुलभेति भावः । अत्रार्थान्तरं चाहुः । अन्यो गुणं पाशमवन् प्रयुञ्जानः शशमवाप जग्राह । यो हन्ता तस्यैव मृग इति व्याधसमयादिति भावः ॥
त्रासाकुलः परिपतन्परितो निकेता
न्पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि । तस्थौ तथापि न मृगः क्वचिदङ्गनाना
माकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥२६॥ त्रासेति ॥ त्रासाकुलो जनदर्शनाद्भयविह्वलोऽत एव निकेतान्निवेशान्परितः सर्वतः । 'अभितःपरितः-' इत्यादिना द्वितीया। परिपतन्धावन्मृगो हरिणः कैश्चिदपि धन्विभिर्धनुष्मद्भिः। 'धन्वी धनुष्मान्धानुष्कः' इत्यमरः । ब्रीडादित्वादिनिरिति स्वामी । पुंभिर्नान्वबन्धि नानुयातः। बनातेः कर्मणि लुङ्। तथाप्यङ्गनानामाकर्णपूर्णा विस्तीर्णा आकृष्टाश्च ये नयनान्येवेषवस्तैर्हता ईक्षणश्रीर्यस्य सः। अतः क्वचिदपि न तस्थौ । किंतु वीरविशिखपाताभावेऽप्यङ्गनापाङ्गविशिखपातात्प. लायित एवेति भावः । अत्र जनालोकनोत्थभयहेतुकस्य मृगानवस्थानस्थागनापाङ्गेषु हतिहेतुकत्वोत्प्रेक्षणाद्धेतूत्प्रेक्षा । सा च व्यञ्जकाप्रयोगात्प्रतीयमाना हेतोश्च हतेक्षणश्रीरिति विशेषणगत्योक्तत्वात्काव्यलिङ्गमिति संकरः ॥
आस्तीर्णतल्परचितावसथः क्षणेन
वेश्याजनः कृतनवप्रतिकर्मकाम्यः । खिन्नानखिन्नमतिरापततो मनुष्या
न्प्रत्यग्रहीचिरनिविष्ट इवोपचारैः ॥२७॥ आस्तीर्णेति ॥ क्षणेनास्तीर्णतल्पं वेश्यावृत्तेः शय्याप्रधानत्वात्प्रागेव सजितशय्यं यथा तथा रचितावसथः कल्पितनिकेतः। 'स्थानावसथवास्तु च' इति कोशः। कृतेन नवप्रतिकर्मणा नूतनेन प्रसाधनेन काम्यः स्पृहणीयोऽखिन्नमतिरश्रान्तचित्तः। अगणिताध्वखेद इत्यर्थः । वेश्याजनः खिन्नानध्वश्रान्तानापतत