________________
पञ्चमः सर्गः।
१२५ :
आगच्छतो मनुष्यान्पुरुषान् चिरनिविष्ट इव तत्रैव नित्यवास्तव्य इवेत्युत्प्रेक्षा । उपचारैः शीताम्बुताम्बूलदानादिसत्कारैः प्रत्यग्रहीत् । वशीचकारेत्यर्थः ॥
सस्नुः पयः पपुरनेनिजुरम्बराणि ___ जक्षुर्विसं धृतविकासिबिसप्रसूनाः । सैन्याः श्रियामनुपभोगनिरर्थकत्व
दोषप्रवादममृजन्नगनिम्नगानाम् ॥ २८ ॥ सस्नुरिति ॥ सेनायां समवेताः सैन्याः सैनिकजनाः। 'सेनायां च' इति ण्यप्रत्ययः । नगनिम्नगानां याः श्रियः समृद्धयस्तासामनुपभोग उपभोगाभावः । वचित्प्रसज्यप्रतिषेधेऽपि नसमास इष्यते । यथाऽदर्शनमश्रवणमनुच्चारणमनुपलब्धिरभाव इत्यादि । तेन यन्निरर्थकत्वं निष्फलत्वं तदेव दोषस्तेन यः प्रवादो निन्दा तममृजन्नमार्जन् । 'मजू शुद्धौ' अदादित्वाल्लङि शपो लुक् । 'मृजेरजादौ विकृति विभाषा वृद्धिर्वक्तव्ये ति विकल्पाद्यभावः। मार्जनप्रकारमाह-सस्नुः स्नानं चक्रुः । पयः पानीयं पपुः । 'प्णा शौचे' 'पा पाने' लिट् । अम्बराण्यनेनिजुरक्षालयन् । 'णिजिर् शौचे' । जुहोत्यादित्वाल्लङि 'लौ' इति द्विर्भावः । 'सिजभ्यस्तविदिभ्यश्च' इति झेर्जुसादेशः । 'णिजां त्रयाणां गुणः श्लो' इत्यभ्यासस्य गुणः । धृतानि विकासिबिसप्रसूनानि विकासितपुष्कराणि यैस्ते । 'बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च' इत्यमरः । बिसं मृणालं जक्षुर्भक्षयाचक्रः । घसेलिटि 'गमहन-' इत्यादिना उपधालोपे चुत्वं 'शासिवसिघसीनां च' इति षत्वम् । स्नानाद्युपभोगेनोक्तनैरर्थ्य 'निराचारित्यर्थः । अत्र दोषमाजनस्य स्नानादिना कृतत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । स्नानादिक्रियासमुच्चयस्त्वङ्गमस्येति संकरः ॥
नाभिहदैः परिगृहीतरयाणि निम्नः
स्त्रीणां बृहजघनसेतुनिवारितानि । जग्मुर्जलानि जलमड्डकवाद्यवल्गु
वल्गद्धनस्तनतटस्खलितानि मन्दम् ॥ २९ ॥ नाभीति ॥ स्त्रीणां निम्नैर्गम्भीरै भिभिरेव हूदैः परिगृहीतरयाणि प्रतिषिद्धवेगानि बृहद्भिर्जघनैरेव सेतुभिर्निवारितानि । प्रतिहतगतिकानीत्यर्थः । 'पश्चानितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः' इत्यमरः । जलमेव मड्डकवाद्यं वाद्यविशेषः । जलमेकेन पाणिनोत्थापितमपरेण ताडितं मडुकवट्वनतीति प्रसिद्धम् । तेन वल्गु सुन्दरं यथा तथा वल्गद्भिश्चलैपनैः स्तनतटैः स्खलितानि स्खलनं गतानि गमितानि वा जलानि पूर्वोक्तनगनिम्नगासलिलानि मन्दं जग्मुः। अत्र जलमन्दगमनस्य विशेषणगत्या रयप्रतिबन्धादिपदार्थहेतुकत्वात्काव्यलिङ्गम् ॥