________________
१२६
शिशुपालवधे आलोलपुष्करमुखोल्लसितैरभीक्ष्ण___ मुक्षांबभूवुरभितो वपुरम्बुवः ।
खेदायतश्वसितवेगनिरस्तमुग्ध___मूर्धन्यरत्ननिकरैरिव हास्तिकानि ॥ ३० ॥ आलोलेति ॥ हस्तिनां समूहा हास्तिकानि । 'अचित्तहस्तिधेनोष्ठक्' । आलोलानि यानि पुष्काराणि हस्ताग्राणि । 'पुष्करं करिहस्ताने' इत्यमरः । तेषां मुखै रन्धैरुल्लसितान्युत्क्षिप्तानि तैरम्बुवर्षेः खेदेनाध्वश्रमेणायतेन द्वाघीयसा श्वसितस्योच्छवासमारुतस्य वेगेन निरस्ता बहिरुत्क्षिप्ता ये मुग्धाः सुन्दराः मूर्धन्या मूर्धनि भवाः । 'शरीरावयवाच' इति यत्प्रत्ययः । 'ये चाभावकर्मणोः' इति प्रकृतिभावात् 'नस्तद्धिते' इति टिलोपाभावः। रत्ननिकरा मुक्ताफलप्रकरास्तैरिवेत्युत्प्रेक्षा । वपुरभीक्ष्णमुक्षांबभूवुः सिषिचुः। 'उक्ष सेचने' 'इजादेच गुरुमतोऽनृच्छः' इत्याम्प्रत्ययः । 'गजेन्द्रजीमूतवराहशङ्खमत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषां तु शुक्त्युद्भवमेव भूरि ॥' इति गजानां मुक्ताकरत्वे प्रमाणम् ॥
ये पक्षिणः प्रथममम्बुनिधि गतास्ते
येऽपीन्द्रपाणितुलितायुधलूनपक्षाः । ते जग्मुरद्रिपतयः सरसीविंगाढु
माक्षिप्तकेतुकुथसैन्यगजच्छलेन ॥३१॥ य इति ॥ ये पक्षिणः पक्षवन्तः । इन्द्रेणाच्छिन्नपक्षा इत्यर्थः। संसर्गे इनिप्रत्ययः । तेऽद्रिपतयो मैनाकादयः प्रथममम्बुनिधिं गताः प्रविष्टाः। येऽपि । ये ये इत्यर्थः । इन्द्रस्य पाणिना तुलितेन प्रेरितेनायुधेन वज्रेग लूनपक्षाश्छिन्नगरुतस्तेऽद्रिपतय आक्षिप्ता अपनीताः केतवो ध्वजाः कुथाः, पृष्ठास्तरणानि च येषाम् । "प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः' इत्यमरः । तेषां सैन्यगजानां छलेन सरसीविंगाढुं विगाहितुम् । 'स्वरतिसूति-' इति विकल्पान्नेडागमः। जग्मुः । अत्र गजच्छलेनेति छलशब्देन गजत्वमपढ्त्याद्रित्वारोपणाच्छलादिशब्दैरसत्यत्वप्रति. पादनरूपोऽपहवालंकारः । तेन पक्षवतामद्रीणां सागरावगाहनदर्शनान्मत्सरात्स्वयमपि सलिलमवगाहमानाः साक्षालनपक्षाः पर्वता इवेत्युत्प्रेक्षा व्यज्यते ॥
आत्मानमेव जलधेः प्रतिविम्बिताङ्ग-.
मूमौ महत्यभिमुखापतितं निरीक्ष्य । क्रोधादधावदपभीरभिहन्तुमन्य
नागाभियुक्त इव युक्तमहो महेभः ॥ ३२ ॥ आत्मानमिति ॥ महेभो जलधेर्जलाशयस्य महत्यूमौं प्रतिबिम्बितमङ्गं