________________
शिशुपालवधे
धुन्वाना करयुगमीक्षितुं विलासाशीतालुः सलिलगतेन सिच्यते स्म ॥ १९ ॥
आसीनेति ॥ शीतं न सहत इति शीतालुः शीतभीरुः । 'शीतोष्णाभ्यां `तदसहने आलुज्वक्तव्यः' । अत एव सरसि अवतरितुं प्रवेष्टुमनिच्छुरनभिलाका । अत एव भुवि आसीना उपविष्टा । आसेः कर्तरि शानच् । 'ईदासः ' इतीकारः । रम्भे कदलीस्तम्भाविवोरू यस्याः सा रम्भोरूः स्त्री । 'ऊरूत्तरपदादौपम्ये' इत्यूप्रत्ययः । सलिलगतेन स्वयं सलिलं प्रविष्टेन सम्मितेन भर्त्रा विलासानीक्षितुं करयुगं धुन्वाना कम्पयन्ती । धुनोतेः कर्तरि शानच् प्रत्ययः । सिच्यते स्म सिक्ता ॥
नेच्छन्ती समममुना सरोऽवगाढुं
१९४
रोधस्तः प्रतिजलमीरिता सखीभिः ।
आश्लिक्षचकितेक्षणं नवोढा
वोढारं विपदि न दूषितातिभूमिः ॥ २० ॥
नेच्छन्तीति ॥ अमुना सममनेन भर्त्रा सह सरोऽवगादुमवगाहितुम् । 'स्वरतिसूतिसूयतिधूनूदितो वा' इति विकल्पान्नेडागमः । नेच्छन्ती लज्जयानिच्छन्ती । - नञर्थस्य शब्दस्य सुप्सुपेति समासः । अनञ्समासो वा । अथ सखीभिः प्रतिजलं जलं प्रति रोधस्तो रोधसः । पञ्चम्यास्तसिल् । ईरिता नुन्ना नवोढा नववधूः भयेन चकितेक्षणं संभ्रान्तदृष्टि यथा तथा वोढारं भर्तारमाश्लिक्षदालिङ्गितवती । ‘श्लिष आलिङ्गने' इति धातोर्लुङि च्ले: क्सादेशः । न च धार्श्वदोषापत्तिरित्याह । विपदि विपत्तौ अतिक्रान्ता भूमिरतिभूमिरमर्यादा न दूषिता । ' आपत्काले नास्ति मर्यादा' इति न्यायादिति भावः । अर्थान्तरन्यासालंकारः ॥
तिष्ठन्तं पयसि पुमांसमंसमात्रे तद्दनं तदवयती किलात्मनोऽपि । अभ्येतुं सुतनुरभीरियेष मौग्ध्यादाश्लेषि द्रुतममुना निमञ्जतीति ॥ २१ ॥
तिष्ठन्तमिति ॥ सुतनुः शुभाङ्गी स्त्री अंसः प्रमाणमस्येति अंसमात्रे अंसप्रमाणे । ' प्रमाणे सज्दन्नन् मात्रचः' इति मात्रच्प्रत्ययः । पयसि जले तिष्ठन्तं मांसम् । वीक्ष्येति शेषः । आत्मनोऽपि तत्पयः तद्दघ्नं तावन्मात्रमंसमात्रं अवयती जानती किल । तथा संभावयन्तीत्यर्थः । ' वार्ता संभाव्ययोः किल' इत्यमरः । अवपूर्वादिणः शतरि 'इणो यण' इति यणादेशः । 'उगितश्च' इति ङीप् । किलशब्दस्यालीकार्थत्वे मौग्ध्यविरोधः । अत एव मौग्ध्यादविवेकादभीर्निर्भीका सती अभ्येतुं पुमांसमभिगन्तुमियेष इच्छति स्म । अमुना पुंसा निमज्जतीति द्रुतमाश्लेषि आश्लिष्टा ॥