________________
१९५
अष्टमः सर्गः। आनाभेः सरसि नतभ्रवावगाढे
चापल्यादथ पयसस्तरङ्गहस्तैः। उच्छ्रायि स्तनयुगमध्यरोहि लब्ध
स्पर्शानां भवति कुतोऽथवा व्यवस्था ॥ २२ ॥ आनामेरिति ॥ नतभ्रुवा स्त्रिया सरसि आनाभेर्नाभिपर्यन्तम् । 'आङ् मर्यादाभिविध्योः' इति विकल्पादसमासः। अवगाढे प्रविष्टे सति । गाहेः कर्मणि क्तः । अथ पयसश्चापल्यालोल्यात् । ब्राह्मणादिषु पाठात्व्यञ्प्रत्ययः । तरङ्गैरेव हस्तैस्तरङ्गहस्तैरुच्छ्रायोऽस्यास्तीत्युच्छ्रायि उन्नतिमत् स्तनयुगमध्यरोहि अधिरूढम् । भिक्षुकपादप्रसारणन्यायादिति भावः। रोहतेः कर्मणि लुङ् । अथवा तथाहीत्यर्थः । लब्धस्पर्शानाम् । लब्धप्रवेशानामित्यर्थः। कुतः कुत्र वा। सार्वविभक्तिकस्तसिल । व्यवस्था मर्यादा भवति । न कुत्रापीति भावः । प्रायेण सर्वेऽप्यसंभवब्रह्मचारिण एवेति भावः । अत्र चापल्यादिति द्वयोरपि लौल्ययोरभेदाध्यवसायमूलातिशयोक्त्या तरङ्गहस्तैरिति रूपकेण च पयसि कामित्वप्रतीतेः समासोक्तिः । तदुपजीवी चार्थान्तरन्यास इति संकरः ॥
कान्तानां कुवलयमप्यपास्तमक्ष्णोः
शोभाभिर्न मुखरुचाहमेकमेव । संहर्षादलिविरुतैरितीव गाय
ल्लोलोर्मों पयसि महोत्पलं ननर्त ॥ २३ ॥ कान्तानामिति ॥ लोलोमौ चपलोर्मिणि । 'तृतीयादिषु भाषितपुंस्कं पुंववालवस्य' इति विकल्पात्पुंवद्भावः । पयसि महोत्पलमरविन्दं कर्तृ । 'अरविन्द महोत्पलम्' इत्यमरः । कान्तानां मुखरुचाहमेकमेव नापास्तं, किंतु तासामक्ष्णोः शोभाभिः कुवलयमप्यपास्तमिति संहर्षात्संतोषाद्धेतोरलिविरुतैर्गायत् । अलिरुतरूपं गानं कुर्वदिति रूपकम् । 'इत्थंभूतलक्षणे' इति तृतीया । ननर्तेव । न 'दुःखं पञ्चभिः सह' इति न्यायान्नत्यति स्म । अत्रोमिचलनहेतुके महोत्पलचलने अलिनादसंहर्षहेतुकसमाननृत्यत्वोत्प्रेक्षणाक्रियानिमित्ता क्रियास्वरूपोत्प्रेक्षा वाच्या ॥ - त्रस्यन्ती चलशफरीविघट्टितोरू
मोरूरतिशयमाप विभ्रमस्य । क्षुभ्यन्ति प्रसंभमहो विनापि हेतो
__ लीलाभिः किमु सति कारणे रमण्यः ॥ २४ ॥ त्रस्यन्तीति ॥ चलाः शर्यः यातुकामा मत्स्यः । 'प्रोष्टी तु शफरी द्वयोः' इत्यमरः । ताभिर्विघट्टितौ विद्धावूरू यस्याः सा अत एव त्रस्यन्ती बिभ्यती। 'वा भ्राश-' इत्यादिना विकल्पात् श्यनि शतरि ङीप् । वामौ सुन्दरावूरू यस्याः सा वामोरूः स्त्री। 'संहितशफलक्षणवामादेश्व' इत्यूप्रत्ययः । विभ्रमस्य विला.