________________
१९६
शिशुपालवधे सस्यातिशयमाप । तथा हि रमण्यो हेतोर्विनापि कारणं विनापि । 'पृथग्विना-' इत्यादिना विकल्पात्पञ्चमी । लीलाभिर्विलासैः प्रसभं प्रकामं क्षुभ्यन्ति । अहो निष्कारणक्षोभादाश्चर्यमित्यर्थः । कारणे सति किमु वक्तव्यम् । अत्राप्रकृतनिष्कारणक्षोभकथनात्सकारणक्षोभस्य कैमुत्यन्यायलब्धत्ववर्णनादर्थापत्तिरलंकारः । 'दण्डापूपिकयार्थान्तरस्यापतनमर्थापत्तिः' इति सूत्रम् ॥ ..
आकृष्टप्रतनुवपुलतैस्तरद्भि
स्तस्याम्भस्तदथ सरो महार्णवस्य । अक्षोभि प्रसृतविलोलबाहुपक्ष
र्योषाणामुरुभिरुरोजगण्डशैलैः ॥ २५ ॥ आकृष्टेति ॥ अथानन्तरमाकृष्टाः प्रतनवो वपूंष्येव लता यैस्तैस्तरन्दिः प्लवमानैः प्रसृता आयता विलोलाश्चला बाहव एव पक्षा गरुन्ति येषां तैः। गिरिधर्मस्य पक्षवत्वस्य तदवयवेषूपचारः । उरुभिर्महद्भिर्योषाणां स्त्रीणामुरोजैरेव गण्डशैलैर्गि: रिच्युतैः स्थूलोपलैस्तस्य सर एव महार्णवस्य तदम्भः अशोभि । क्षुभितेय॑न्तादण्यन्ताद्वा कर्मणि लुङ् । समस्तवस्तुविषयकं सावयवरूपकम् ॥
गाम्भीर्यं दधदपि रन्तुमङ्गनाभिः
संक्षोभं जघनविघट्टनेन नीतः। अम्भोधिर्विकसितवारिजाननोऽसौ
मर्यादां सपदि विलङ्घयांबभूव ॥ २६ ॥ गाम्भीर्यमिति ॥ गाम्भीर्यमगाधत्वं, अविकारिचित्तत्वं च दधदपि गभीरः सन्न रन्तुं विहर्तुं संगन्तुं चाङ्गनाभिर्जघनस्य विघट्टनेन संघर्षेण संक्षोभं चलनं, चित्तविकारं च नीतः, अत एव विकसितं वारिजमाननमिव वारिजमिव चाननं यस्य सः अम्भांसि धीयन्तेऽस्मिन्निति अम्भोधिजलाशयः, असौ कश्चित्पुमांच तत्तुल्यो गम्यते । 'कर्मण्यधिकरणे च' इति किप्रत्ययः । सपदि मर्यादा सीमानं औचिती च विलवयांबभूव लजितवान् । धीरोऽपि स्त्रीसंनिकर्षाद्विक्रियत इति भावः । अन गाम्भीर्यादिप्रकृताम्भोधिविशेषणसाम्यादप्रकृतविशेष्यपुरुषप्रतीतेः समासोक्तिरलंकारः । सा च प्रतीयमानाभेदाध्यवसायमूलातिशयोक्त्यनुप्राणितेति संकरः॥
आदातुं दयितमिवावगाढमारा
दुर्मीणां ततिभिरभिप्रसार्यमाणः । कस्याश्चिद्विततचलच्छिखाङ्गुलीको
लक्ष्मीवान्सरसि रराज केशहस्तः ॥ २७॥ आदातुमिति ॥ सरसि वितताः प्रसारिताश्चलन्त्यश्च शिखा अग्राण्येवाङ्गुल्यो यस्य सः। 'नवृतश्च' इति कप् । लक्ष्मीवाशोभावान् । 'मादुपधायाश्च मतो.