________________
अष्टमः सर्गः।
१९७
वोऽयवादिभ्यः' इति मतुपो मकारस्य वत्वम् । कस्याश्चित्केशहस्तः केशपाशः । 'पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे' इत्यमरः । हस्त इति करश्च ध्वन्यते। आरात्समीपे । 'आराहूरसमीपयोः' इत्यमरः । अवगाढमन्तर्मग्नं दयितमादातुं ग्रहीतुमिव ऊर्मीणां ततिभिः समूहैरभिप्रसार्यमाणोऽभितो व्यापार्यमाणः सन् रराज । अनादातुमिव प्रसार्यमाण इति प्रसारणस्यादानार्थत्वोत्प्रेक्षणादियं क्रियानिमित्ता क्रियाफलोत्प्रेक्षा । सा च चलच्छिखाडलीक इति रूपकानुप्राणितया हस्त इति श्लेषमूलया वाच्यस्य केशकलापस्य प्रतीयमानात्करानेदे अभेदरूपातिशयोक्त्या नियूंढेति संकरः ॥
उनिद्रप्रियकमनोरमं रमण्याः
संरेजे सरसि वपुः प्रकाशमेव । युक्तानां विमलतया तिरस्क्रियायै
नाकामन्नपि हि भवत्यलं जलौघः ॥ २८ ॥ उन्निद्रेति ॥ उन्निद्रं यत्प्रियकमसनकुसुमम् । 'सर्जकासनबन्धूकपुष्पप्रियकजीवकाः' इत्यमरः । तदिव मनोरमम् । कनकगौरमित्यर्थः । रमण्या वपुः सरसि प्रकाशमेव जलमग्नमपि वैमल्याल्लक्ष्यमेव संरेजे । तथाहि-जलौघो जलपूरो, जडौघो मूर्खजनौघश्च डलयोरभेदात् । आक्रामन्नावृण्वन्नपि, अन्यत्र अधिक्षिपन्नपि विमलतया वैमल्येन युक्तानां शुद्धानां तिरस्क्रियायै तिरोधानाय, परिभवाय च अलं समर्थो न भवति हि । श्लेषमूलया भेदेऽभेदरूपातिशयोक्त्यानुप्राणितोऽयमर्थान्तरन्यासः॥
किं तावत्सरसि सरोजमेतदारा
दाहोविन्मुखमवभासते युवत्याः । संशय्य क्षणमिति निश्चिकाय कश्चि
द्विव्वोकैकसहवासिनां परोक्षैः ॥ २९ ॥ किमिति ॥ सरस्यारा इरादेतत्पुरोवर्ति तावत्सरोज किम्, आहोस्वित् उत युवत्या मुखमवभासत इति क्षणं संशय्य संदिह्य । शीङः क्त्वो ल्यए। 'अय यि विति' इत्ययङादेशः । कश्चिद्विलासी बफसहवासिनां बकसहचारिणाम् । पद्मानामित्यर्थः । विलासशून्यताद्योतनार्थमित्थं निर्देशः। परोक्षरप्रत्यक्षैरनुभूतचरैः । अविद्यमानैरिति यावत् । विश्वोकैः । विलासैरित्यर्थः । यद्यपि 'विन्योकोऽनादरक्रिया' इत्युक्तम् , तथापि विशेषवाचिनां सामान्य लक्षणेत्यदोषः । निश्चिकाय । विशेषदर्शनान्मुखमेवेति निश्चितवानित्यर्थः । संदेहालंकारोऽयम् । 'विषयो विषयी यत्र सादृश्यात्कविसंमतात् । संदेहगोचरौ स्यातां संदेहालंकृतिश्च सा ॥' इति लक्षणात् । सोऽप्यन्ते निश्चयोक्तेनिश्चयान्तः ॥