________________
ॐॐ
इत्यादि,
शिशुपालवधे
श्री सिद्धर्षिप्रभोः पान्तु वाचः परिपचेलिमाः । अनाद्यविद्यासंस्कारा यदुपास्तेर्भिदेलिमाः ॥ २ ॥ सुप्रभः पूर्वजो यस्य सुप्रभः प्रतिभावताम् । -बन्धुबन्धुरभाग्यस्य यस्य माघः कवीश्वरः ॥ ३ ॥ चरितं कीर्तयिष्यामि तस्य त्रस्यज्जडाशयम् । -भूभृच्च चमत्कारि वारिताखिलकल्मषम् ॥ ४॥ अजर्जरश्रियां धाम वेषालक्ष्यजरज्जरः (?) । अस्ति गुर्जरदेशोऽन्यसज्जराजन्यदुर्जरः ॥ ५ ॥ तत्र श्रीमालमित्यस्ति पुरं मुखमिव क्षितेः । चैत्योपरिस्थकुम्भालिर्यत्र चूडामणीयते ॥ ६ ॥ प्रासादा यत्र दृश्यन्ते मत्तवारणराजिताः । 'राजमार्गाश्च शोभन्ते मत्तवारणराजिताः ॥ ७॥ जैनालयाश्च सन्त्यत्र नवं धूपगमं श्रिताः । महर्षयश्च निःसङ्गा न बन्धूपगमं (?) श्रिताः ॥ ८ ॥ तत्रास्ति हास्तिकाश्वीयापहस्तित रिपुव्रजः । नृपः श्रीवर्मलाताख्यः शत्रुमर्मभिदाक्षमः ॥ ९ ॥ तस्य सुप्रभदेवोऽस्ति मन्त्री मिततपाः किल । तस्य पुत्रावुभावंसाविव विश्वंभरक्षमौ ॥ १० ॥
आद्यो दत्तः स्फुरद्वृत्तो द्वितीयश्च शुभंकरः । दत्त वित्तीविभ्यो दत्त [:] चित्तसुधर्मधीः (१) ॥ ११ ॥ तेस्य श्रीभोजभूपालबालमित्रं कवीश्वरः । श्रीमाघो नन्दनो ब्राह्मीस्यन्दनः शीलचन्दनः ॥ १२ ॥ ऐदंयुगीन लोकस्य सारसारखतायितम् । शिशुपालवधं काव्यं प्रशस्तिर्यस्य शाश्वती ॥ १३॥ श्री माघोऽस्ताघधीः श्लाघ्यः प्रशस्यः कस्य नाभवत् । चित्तजाड्यहरा यस्य काव्यगङ्गोर्मिविप्रुषः ॥ १४ ॥ तथा शुभंकरः श्रेष्टी विश्वविश्वप्रियंकरः । यस्य दानाद्भुतैगाँतैर्हर्यश्वो हर्ष भूरभूत् ॥ १५ ॥ तस्याभूद्गेहिनी लक्ष्मीर्लक्ष्मीर्लक्ष्मीपतेरिव । यया सत्यापिता सत्यासीताद्या विश्वविश्रुताः ॥ १६॥ नन्दनो नन्दनोत्तंसः कल्पद्रुम इवापरः । यथेच्छादानतोऽर्थिभ्यः प्रथितः सिद्धनामतः ॥ १७ ॥”
१ दत्तकस्य..