SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः। "इत्यमुद्वेजितखान्तस्तेनासौ निर्ममे बुधः। अन्यदुर्बोधसंबद्धां प्रस्तावाष्टकसंभृताम् ॥९५ ॥ रम्यामुपमितिभवप्रपञ्चाख्यां महाकथाम् । सुबोधकवितां विद्वदुत्तमाङ्गविधूननीम् ॥ ९६ ॥” युग्मम् ॥ इत्यादि च सिद्धर्षिचरितं वर्तते। चरितान्ते च"श्रीमत्सुप्रभदेवनिर्मलकुलालंकारचूडामणिः श्रीमन्माघकवीश्वरस्य सहजः प्रेक्षापरीक्षानिधिः । तद्वृत्तं परिचिन्त्य कुग्रहपरिष्वङ्गं कथंचित्कलि । प्रागल्भ्यादपि संगतं त्यजत भो लोकद्वये शुद्धये ॥ १५५ ॥" इति पद्यमस्ति । . एतत्प्रबन्धत्रयविलोकनेन शिशुपालवधकाव्यकर्ता माघकविः ख्रिस्ताब्दीयैकादशशतकोत्तरार्धे मालवदेशं शासतो धारानगराधिपतेः श्रीभोजदेवस्य समकालीन आसीदिति प्रतीयते । परमेतादृशे समयनिर्णयादिव्यतिकरे भोजप्रबन्धप्रबन्धचिन्तामणिप्रभावकचरितादयो न श्रद्धापथमध्यासते । यतस्तत्रातिप्रतीतेषु बहुमिनिणीतेषु विषयेष्वपि भूयान्विपर्ययः समुपलभ्यते ॥ . माघकविस्तु ख्रिस्ताब्दीयनवमशतकात्कथमपि नार्वाचीनः । यतः कश्मीरेषु नवमशतकोत्तरभागे वर्तमानः श्रीमदानन्दवर्धनाचार्यों ध्वन्यालोकस्य द्वितीयोद्दयोते . १ असौ सिद्धः. २ उपमितिभवप्रपञ्चकथासमाप्तौ (९६२) मितो ग्रन्थनिर्माणसंवत्सरो लिखितः. एतदेवावलम्ब्य शार्मण्यदेशवासी क्वाटपण्डितः ( Dr. F. Klatt ) माघकवेरपि सत्तां ख्रिस्ताब्दीयदशमशतकारम्भे स्थिरीकरोति । तद्देशीयो जेकोबीपण्डितस्तु ( Prof. Jacobi) We therefore cannot place Magha later than about the middle of the Sixth century' इति वदन्खिस्ताब्दीयषष्ठशतकमध्यभागान्नार्वाचीनो माघकविरिति निश्चिनोति. याकोबीमतमेव ममापि संमतम. यतः प्रभावकचरितमपहायान्यत्र माघस्य शुभंकरः पितृव्य आसीसिद्धश्च पितृव्यपुत्र इत्यादि नोपलब्धम्. केवलमियं किंवदन्त्येव. प्रभावकचरितं च जनश्रुत्याधारेण निर्मितभिति ग्रन्थारम्भे-'बहुश्रुतमुनीशेभ्यः प्राग्ग्रन्थेभ्यश्च कानिचित् । उपश्रुत्येतिवृत्तानि वर्णयिष्ये कियन्त्यपि ।। इति ग्रन्थ कृत्स्वयमेव वदति. अथ च तारानाथतर्कवाचस्पतिना वाचस्पये कोषे माघपदव्याख्याने 'तावद्भा भारवे. ति यावन्माघस्य नोदय इत्युद्भटः' इति लिखितमस्ति , तत्र लाटपण्डितः ‘अयं श्लोक: क्वचिदप्युद्भटग्रन्थे नोपलभ्यत' इति तारानाथमाक्षिपति. किंतूटपदेन कश्मीर देशप्रसिद्धो नयापीडसभापतिर्भट्टोद्भटस्तारानाथस्य न विवक्षितः, तेन तु ग्रन्थबहिर्भूतोऽज्ञात कर्तृनामकः लोक एवोद्भटपदेन व्यवहियते. तथा च तदीये वाचस्पत्य एव उद्भट पदव्याख्याने ग्रन्थबहिभूते लोकप्रसिद्धेऽज्ञातकर्तृके श्लोके' इति तदीयं व्याख्यानमस्ति. एतत्सर्व पर्यालोच्य शर्मवता शानण्यपण्डितेन संतोष्टव्यम्.
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy