________________
१९२
शिशुपालवधे . 'अन्तःशब्दस्यातिविधिणत्वेषूपसर्गत्वं वाच्यम्' इति अन्तःशब्दस्योपसर्गत्वात् 'आतश्चोपसर्गे' इत्यङ् प्रत्ययः । उपययुः । युक्तं चैतदित्याह-तथाहि । परेण जितः कः । इवशब्दो वाक्यालंकारे। पुरो जेतुरग्रे प्रादुःष्यात्प्रादुर्भवेत् । 'उपसर्गप्रादुर्ध्यामस्तिर्यच्परः' इति षत्वम् । अर्थान्तरन्यासः ॥
मुग्धायाः सरललितेषु चक्रवाक्या
निःशकं दयिततमेन चुम्बितायाः। प्राणेशानभि विदधुर्विधूतहस्ताः
सीत्कारं समुचितमुत्तरं तरुण्यः ॥ १३ ॥ मुग्धाया इति ॥ दयिततमेन निःशङ्क निर्विचारं चुम्बिताया दष्टायाः स्मरललितेषु चुम्बनाद्यनन्तरकृत्येषु सीत्कारादिकामचेष्टितेषु मुग्धाया मूढायाश्चक्रवाक्याः समुचितं योग्यं सीत्कारं सीत्काररूपमुत्तरं कृत्यं तरुण्यः स्वयं प्राणेशानभि विधूतहस्ताः सत्यो विदधुः । तादात्म्यभावनया स्वयं दष्टा इव सीचक्रुरिति सीत्कारासंबन्धे तत्संबन्धातिशयोक्त्या तत्रासामुद्दीपकमासीदित्युक्तम् ॥
उत्क्षिप्तस्फुटितसरोरुहार्यमुच्चैः
सस्नेहं विहगरुतैरिवालपन्ती । नारीणामथ सरसी सफेनहासा
प्रीत्येव व्यतनुत पायमूर्मिहस्तैः ॥ १४ ॥ उत्क्षिप्तेति ॥ अथानन्तरमुरिक्षतं स्फुटितसरोरुहं विकचारविन्दमेवाय॑मर्यद्रव्यं यस्मिंस्तत्तथा सस्नेह विहगरुतैरालपन्ती स्वागतादिवचनं व्याहरन्तीव स्थिता इत्युत्प्रेक्षा । फेन इव हासस्तेन सहिता सफेनहासा । स्मितपूर्वाभिभा. षिणीत्यर्थः । सरसी पुष्करिणी नारीणामूर्मिभिरेव हस्तैः पाद्यं पादोदकम् । 'पादााभ्यां च' इति यत्प्रत्ययः । प्रीत्येवेत्युत्प्रेक्षा । व्यतनुत । रूपकानुप्राणितोप्रेक्षाद्वयस्य सापेक्षत्वात्संसृष्टिः ॥
नित्याया निजवसतेर्निरासिरे य
द्रागेण श्रियमरविन्दतः करात्रैः । व्यक्तत्वं नियतमनेन निन्युरस्याः
सापत्यं क्षितिसुतविद्विषो महिष्यः ॥ १५ ॥ नित्याया इति ॥ क्षितिसुतविद्विषो नरकद्विषो हरेर्महिष्यः कराग्रैः पाणिपल्लवैः करणे रागेण रक्तवर्णेन, इच्छया च श्रियं शोभाम् , रमां च नित्यायाः सदातन्याः निजवसतेः स्ववासादरविन्दतोऽरविन्दाग्निरासिरे निष्कासयांचक्रुः । निश्चक्रुश्चेति यावत् । 'उपसर्गादस्यत्यूह्योर्वावचनम्' इति विकल्पादात्मनेपदम् । अनेन निरासेनास्याः श्रियः सापत्न्यं सपत्नीत्वम् । ब्राह्मणादित्वात्व्यञ् प्रत्ययः । व्यक्तत्वं निन्युः । व्यक्तीचक्रुरित्यर्थः । अत्र श्रीशब्देन रमाशोभयोरभेदाध्यवसायेन