________________
३९४
शिशुपालवधे
दधत इति ॥ मेदिनीभृतो राजानः । धूमपटलेन पिहितस्य छादितस्य मत एव भयानकतरत्वमतिभयंकरत्वमुपगतवतो गिरेः समानतां सादृश्यं दधतो दधानाः सपदि समवर्मयन्संवर्मयन्ति स्म । सम्यग्वर्मणानह्यन्नित्यर्थः । 'सत्यापपाश-' इत्यादिना णिच् । उपमालंकारः ॥ परिमोहिणा परिजनेन कथमपि चिरादुपाहृतम् । वर्म करतलयुगेन महत्तनुचूर्णपेषमपिषद्रुषा परः ॥ ७६ ॥
परिमोहिणेति ॥ परोऽन्यो नृपः । परिमुह्यतीति परिमोही । 'संपृच-' इत्यादिना घिनुण्प्रत्ययः । तेन । खेदयुक्तेनेत्यर्थः। परिजनेन सेवकजनेन कथमपि विलम्बेन कष्टसृष्ट्या चिरादुपाहृतमानीतं महद्वर्म संनाहं करतलयुगेन पाणितलद्वयेन तनुचूर्णपेषं पिष्ट्वा । 'शुष्कचूर्णरूक्षेषु पिषः' इति णमुलप्रत्ययः । अपिषचूर्णितवान् । तच्च जिगीषोर्दुनिमित्तमिति भावः । 'कषादिषु यथाविध्यनुप्रयोगः' इत्यनुप्रयोगः । पिषेलुङि 'पुषादि-' इति च्लेरङादेशः । अत्र वर्मणः पेषणासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः । तया चामानुषं वीर्यमस्य व्यज्यते ॥ रणसंमदोदयविकासिबलकलकलाकुलीकृते । शारिमशकदधिरोपयितुं द्विरदे मदच्युति जनः कथंचन ॥७॥
रणेति ॥ रणेन रणारम्भेण यः संमदो हर्षः । 'प्रमदसंमदौ हर्षे' इति निपातः। तस्योदयेन जन्मना विकासिभिर्विस्तारिभिर्बलकलकलैः सैन्यकोलाह. लैराकुलीकृते संक्षोभिते । अतएव मदं च्योततीति मदच्युति मदनाविणि । क्विप् । द्विरदे गजे जनः परिजनः शारि पर्याणम् । 'ना पर्याणे विरङ्गे स्त्री शारिद्यूतगुडे न पुम्' इति वैजयन्ती। 'शारिर्नाऽक्षोपकरणे स्त्रियां शकुनिकान्तरे । युद्धार्थे गजपर्याणे व्यवहारान्तरे क्वचित् ॥' इति विश्वप्रकाशश्च । अधिरोपयितुमारोपयितुं कथंचन कृच्छ्रादशकच्छशाक । शकेलृङि 'पुषादि-' इति च्लेरङादेशः । अत्र विशेषणगत्या सेनाकलकलस्य मदहेतुत्वान्मदस्य शारिदु. रारोपत्वहेतुत्वाच्च काव्यलिङ्गद्वयं तत्सापेक्षत्वात्संकीर्यते ॥ परितश्च धौतमुखरुक्मविलसदहिमांशुमण्डलाः। तेनुरतनुवपुषः पृथिवीं स्फुटलक्ष्यतेजस इवात्मजाः श्रियः॥८॥
परित इति ॥ किं चेति चार्थः । धौतेषु शोधितेषु मुखरुक्मेषु मुखस्य रुक्माभरणेषु विलसत्प्रत्येकं प्रतिफलदहिमांशुमण्डलमर्कबिम्बं येषां ते तथोक्ताः । अतएव स्फुटलक्ष्यमन्तर्गत्वा बहिः स्फुरितं तेजोऽन्तःसारो येषां ते इव स्थिता इत्युत्प्रेक्षा । तेजो व्याख्यातं पञ्चमे तेजोनिरोधेत्यत्र । अतनुवपुषो महाकायाः श्रिय आत्मजा अश्वाः। 'लक्ष्मीपुत्रोऽश्व आढ्ये च' इति वैजयन्ती। परितः पृथिवीं तेनुर्व्याप्तवन्तः ॥