________________
पञ्चदशः सर्गः।
३९५ प्रधिमण्डलोद्धतपरागघनवलयमध्यवर्तिनः । पेतुरशनय इवाशनकैर्गुरुनिःस्वनव्यथितजन्तवो रथाः ॥ ७९ ॥
प्रधीति ॥ 'चक्रधारा प्रधिनेंमिः' इति हलायुधः । प्रधिमण्डलैनैमिवलयैरुद्धता उत्थापिताः परागाः पांसव एव घना मेघास्तेषां वलयानि मण्डलानि तेषां मध्यवर्तिनः गुरुभिर्निःस्वनैः स्वघोषैर्व्यथिता भीषिता जन्तवः प्राणिनो यैस्ते रथा अशनयः वज्रा इवाशनकैः पेतुस्तीव्रमधावन् । अत्र रथानामशनित्वेनोत्प्रेक्षा परागाणां घनत्वरूपणसापेक्षेति संकरः ॥ दधतः शशाङ्कितशशाङ्करुचि लसदुरश्छदं वपुः। चक्रुरथ सह पुरन्ध्रिजनैरयथार्थसिद्धि सरकं महीभृतः ॥ ८० ॥
दधत इति ॥ लसन्नुरश्छदः कवचो यस्मिन्कर्मणि तद्यथा तथा । 'उरश्छदः कङ्कटकोऽजगरः कवचोऽस्त्रियाम्' इत्यमरः। अतएव शशाङ्कितो मृगलाञ्छितो यः शशाङ्क इन्दुस्तस्य रुचिरिव रुचिर्यस्येत्युपमा । तद्वपुर्दधतो दधानाः महीभृतो राजानः पुरन्ध्रिजनैरङ्गनाजनैः सह । अयथार्था असत्या सिद्धिर्मदकार्योंपत्तियस्मिंस्तद्यथार्थसिद्धिरहितम् । अनिर्वृतचित्तत्वादमादकमित्यर्थः । सरकं मधुपानं चक्रुः । उत्साहवर्धनार्थमिति भावः । 'मणौ शीधौ शीधुपाने सरकं मधुभाजनम्' इति वैजयन्ती ॥ ___ अथासर्गसमाप्तेः प्रायाणिकामन्त्रगाय प्रियासंगतानां भटानामागामिशुचः. सूचिकास्तात्कालिकचेष्टा वर्णयतिदयिताय सासवमुदस्तमपतदवसादिनः करात् । कांस्यमुपहितसरोजपतद्भमरौघभारगुरु राजयोषितः॥ ८१ ॥
दयितायेत्यादि ॥ दयिताय प्रेयसे उदस्तं पानार्थमुक्षिप्तं सासवं समर्थ अत एवोपहिते वासनार्थं निहिते सरोजे पतन भ्रमरौध एव भारस्तेन गुरु दुर्भरम् । 'गुरुस्तु वाक्पती श्रेष्ठे तुङ्गे पितरि दुर्भरे' इति शब्दार्णवे । कांस्यं पानभाजनम् । 'कंसोऽस्त्री पानभाजनम्' इत्यमरः । 'वृतृवदिहनिकमिकषिभ्यः सः' इति कमेर्धातोरोणादिकः सप्रत्ययः । तस्मै हितं कंसीयं लोहविशेषः । 'प्राक्कीताच्छः' इति छप्रत्ययः । तस्य विकारः कांस्यं पानपात्रम् । 'कंसीयपरशव्ययोर्यअजौ लुक्च' इति यञ्प्रत्यये छस्य लुक् । राजयोषितः कस्याश्चिद्राजवध्वाः संब. न्धिनः अवसादिनः शैथिल्यभाजः करादपतत् । तच्च दुर्निमित्तमिति भावः । एतेनास्या भाविविरहशोकादेवाप्रसन्नदृष्टेः काचिच्चिन्ता व्यज्यते । अत्रावसादभारगौरवयोर्विशेषणगत्या पात्रपातहेतुत्वात्काव्यलिङ्गम् ॥ भृशमङ्गसादकरुणत्वमविशददृशः कपोलयोः । वाक्यमसकलमपास्य मदं विदधुस्तदीयगुणमात्मना शुचः ॥२॥ भृशमिति ॥ शुचो भाविविरहभावनाप्रसूताः शोकाः अविशददृशः शोका