________________
शिशुपालवधे
सृजे उत्सृष्टा । उपमारूपकयोः संसृष्टिः । ओध्यवर्णविरहान्निरौष्ट्यं चित्रभेदः शब्दालंकारः ॥
नखांशुमञ्जरीकीर्णामसौ तरुरिवोचकैः।
बभौ विभ्रद्धनुःशाखामधिरूढशिलीमुखाम् ॥ १२ ॥ नखेति ॥ नखांशवो मार्य इव ताभिः कीर्णा व्याप्ताम् । अधिरूढाः शिलीमुखा बाणाः, अलयश्च यस्यां ताम् । 'अलिबाणौ शिलीमुखौ' इत्यमरः । धनु:शाखेव तां बिभ्रदसौ कार्णिरुच्चकैरुन्नतस्तरुरिव बभौ । तरुरिवेति लिङ्गात्सर्वत्रोपमितसमासः । शिलीमुखेति श्लिष्टविशेषणेयमुपमा ॥
प्राप्य भीममसौ जन्यं सौजन्यं दधदानते ।
विध्यन्मुमोच न रिपूनरिपूगान्तकः शरैः ॥ १३॥ प्राप्येति ॥ अरिपूगानां शत्रुसङ्घानामन्तकः अरिपूगान्तकोऽसौ काणि: भीम भयंकरं जन्यं युद्धं प्राप्य । 'युद्धमायोधनं जन्यम्' इत्यमरः । आनते नने सौजन्य सौहार्द दधत् न तु विध्यन् । 'न क्लीबं न कृताञ्जलिम्' इति निषेधादिति भावः। रिपून्प्रतिपक्षान्शरैविध्यन्प्रहरन् न मुमोच । न ररक्षेत्यर्थः। संदंशयमकभेदः ॥
कृतस्य सर्वक्षितिपैविजयाशंसया पुरः।
अनेकस्य चकारासौ बाणैर्वाणस खण्डनम् ॥ १४ ॥ कृतस्येति ॥ असौ काणिः सर्वक्षितिपैर्विजयाशंसया विजयाकाङ्क्षया पुरोऽग्रे कृतस्य नियुक्तस्य प्रयुक्तस्य वा अनेकस्यानेकाकिनः। ससहायस्येत्यर्थः। अन्यत्रानेकस्य बहुसंख्यस्य बाणस्य बाणासुरस्य शरजातस्य च बाणैः खण्डनं छेद चकार । अत्र बाणयोर्द्वयोरपि प्रकृतत्वात्केवलप्रकृतयोः श्लेषः ॥
या बभार कृतानेकमाया सेना ससारताम् ।
धनुः स कर्षरहितमायासेनाससार ताम् ॥ १५ ॥ येति ॥ या सेना कृतानेकमाया कृतबहुकपटा सती ससारतां सारवत्तां बभार तां सेनां स काणिः धनुः कर्षन् । धनुषा विध्यन्नित्यर्थः। आयालेन रहितमनायासं यथा तथा अससार । अभियुक्तवानित्यर्थः । बाणं भक्त्वा तत्सेनां बभ त्यर्थः ॥
ओजो महौजाः कृत्वाधस्तत्क्षणादुत्तमौजसः । कुर्वन्नाजावमुख्यत्वमनयन्नाम मुख्यताम् ॥ १६ ॥ ओज इति ॥ महौजाः महाबलः प्रद्युम्न उत्तमौजसो नाम राज्ञः ओजस्तरक्षणादेवाधः कृत्वाभिभूय आजौ युद्धे अमुख्यत्वमप्रधानत्वं कुर्वन् , अथवा अमुख्यत्वममुख्यार्थत्वं तन्नाम्नः कुर्वन् नाम निजं प्रद्युम्ननामधेयं मुख्यतां प्रधानता प्रसिद्धार्थतां चानयत् । प्रकृष्टं घुम्नं बलं यस्येति प्रद्युम्न इति स्वामी ॥