________________
एकोनविंशः सर्गः।
४७१ दूरादेव चमूभल्लैः कुमारो हन्ति स स याः। ।
न पुनः सांयुगीं ताः स कुमारो हन्ति समयाः ॥१७॥ दूरादिति ॥ स कुमारः प्रद्युम्नः सस्मयाः सगर्वाः याश्चमूरादेव भल्लैबीणविशेषैर्हन्ति स्म जघान ताश्चम्बः पुनर्भूयः संयुगस्येमां सांयुगी कुं पृथ्वीं । रणभुवमित्यर्थः । 'गोत्रा कुः पृथिवी पृथ्वी' इत्यमरः । न आरोहन्ति स नारूढाः ॥
निपीड्य तरसा तेन मुक्ताः काममनास्थया ।
उपाययुर्विलक्षत्वं विद्विषो न शिलीमुखाः ॥१८॥ निपीड्येति ॥ तेन प्रद्युम्नेन तरसा बलेन कामं निपीड्य अनास्थयानादरेण मुक्ताः । 'आर्ता न परिहन्तव्याः' इति निषेधेनावध्या इति जीवन्तो मुक्ता इत्यर्थः । अन्यत्र क्षिप्ताः विद्विषो विलक्षत्वं सत्रपत्वमाययुः । 'विलक्षस्तु पा. न्विते' इत्यमरः। शिलीमुखा बाणास्तु विलक्षत्वं लक्षभ्रष्टत्वं नाययुः । अत्र द्वयोरपि विलक्षणत्वयोरभेदाध्यवसायादयं व्यतिरेको विद्विषां शिलीमुखानां च प्रकृतत्वात्तुल्ययोगितौपम्याश्रित इति संकरः ॥
तस्यावदानैः समरे सहसा रोमहर्षिभिः।
सुरैरशंसि व्योमस्थैः सह सारो महर्षिभिः॥ १९ ॥ तस्येति ॥ समरे तस्य प्रद्युम्नस्यावदानरत्युग्रकर्मभिः करणैः सहसा सद्यः रोमहर्षिभिः रोमाञ्चवद्भिः व्योमस्थैः सुरैः महर्षिभिः सह साधं सारो बलमशंसि शंसितम् ॥
सुगन्धयदिशः शुभ्रमम्लानि कुसुमं दिवः। - भूरि तत्रापतत्तस्मादुत्पपात दिवं यशः ॥ २० ॥
सुगन्धयदिति ॥ दिशः सुगन्धयत् सुगन्धाः कुर्वत्। सुगन्धात् 'तत्करोति-' इति ण्यन्ताल्लटः शत्रादेशः । शुभ्र धवलं अम्लानि म्लानिरहितं भूरि प्रभूतं 'कुसुमं दिवोऽन्तरिक्षात्तत्र प्रद्युम्ने अपतत् । तस्मात्प्रद्युम्नाद्यशः पूर्वोक्तगुणयुक्तं दिवमन्तरिक्षं प्रति उत्पपात । अत्र द्युप्रद्युम्नयोः कुसुमयशोभ्यामन्योन्योपस्कारजननादन्योन्यालंकारः । 'परस्परं क्रियाजननेऽन्योन्यम्' इति लक्षणात् ॥
सोढुं तस्य द्विषो नालमपयोधरवा रणम् ।
ऊणुनाव यशश्च द्यामपयोधरवारणम् ॥ २१॥ सोदुमिति ॥ अपगता भयानिवृत्ता योधानां रवाः सिंहनादा येषां ते अपयोधरवाः द्विषः शत्रवः तस्य काणेः रणं सोढुं नालमशक्ताः अतएव यशश्च अविद्यमानं पयोधराणां वारणं मेघप्रतिघातो यस्य तत् अपयोधरवारणं सत् द्यामू. णुनाव । मेघमण्डलं व्यतिलय स्वर्गमाच्छादयामासेत्यर्थः । ऊर्णोतेर्लिद । 'अजा.